सनकाद्या नारदश्च गौतमो जाजलिःक्रतुः
एते ऽन्ये च महासिद्धा वात्स्यायनमुखा द्विज
तं नमस्कृत्य नागैन्द्रैः सह सिद्धैर्महात्मभिः
येयं भूमिर्महाभाग भूतधात्री स्वरूपिणी
यद्यत्पृच्छति सा भूमिः शेषं साक्षान्महीधरम्
मया तत्र श्रुतं वत्स कृष्णप्रेमामृतं शुभम्
वाराहाद्यवताराणां चरितं पापनाशनम्
श्रुत्वा सर्वं धरा वत्स प्रत्दृष्टा तं धराधरम्
अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम्
जयोपाधिनियुक्तानि संति नामान्यनेकशः
तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके
वसुंधरे वरारोहे जनानामस्ति मुक्तिदम्
महापातककोटिघ्न सर्वतीर्थफलप्रदम्
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम्
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः
श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः
पूतनाजीवितहरः शकटासुरभञ्जनः
नवनीतविलिप्ताङ्गो नवनीतनटो ऽनघः
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः
वत्सपालनसंचारी धेनुकासुरमर्द्दनः
उत्तालतालभेत्ता च तमालश्यामला कृतिः
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः
मधुहा मथुरानाथो द्वारकानाथको बली
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः
अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः