विरराम प्रसन्नात्मा पश्यन्राममना तुरः
विस्मितो ऽभूच्च राजेन्द्र गन्तुं कृतमतिस्तथा
स्नात्वा नित्यक्रियां कृत्वा प्रतस्थे हर्षितो भृशम्
सिंहस्य संप्रहारेम विस्मितेन महात्मना
स्नात्वा माध्याह्निकीं सन्ध्यां चका रातिमुदान्वितः
तावत्तत्पृष्ठसंलग्नं मृगयुग्ममुपागतम्
पश्यतो भार्गवस्यागादगस्त्याश्रमसंमुखम्
विपद्गतं पुष्करं तु पश्यमानो महामनाः
गत्वोपस्पृश्य शुच्यंभो जगामागस्त्यसंश्रयम्
त्रीन्संपूरयितुं कुण्डानग्निहोत्रस्य वै विधेः
ददर्श महदाश्चर्यं भार्गवः कुंभजाश्रमम्
कुटरैरर्जुनैर्निंबैः पारिभद्रधवेगुदैः
तत्र प्रविश्य वै रामो ह्यकृतव्रणसंयुतः
स्तिमितोदसरः प्रख्यं ध्यायन्तं ब्रह्म शाश्वतम्
ननाम च महाराज स्वाभिधानं समुच्चरन्
ताद्विद्धि प्रणिपातेन नमस्ते लोकभावन
दृष्ट्वा स्वागतमुच्चार्य तस्मायासनमादिशत्
ददौ पप्रच्छ कुशलं तपसश्च कुलस्य च
भवत्संदर्शनादीश कुशलं मम सर्वतः
मृगश्चैको मया दृष्टो मध्यमे पुष्करे विभो
तच्छूत्वा विस्मयाविष्टो भवच्छरणमागतः
शिवेन दत्तं कवच मम साधयतो गुरो
न च सिद्धिमवाप्तो ऽहं तन्मे त्वं कृपया वद
क्षणं ध्यात्वा महाराज मृगोक्तं ज्ञातवान् हृदा
विचार्याश्वासयामास भार्गवः स्ववचोमृतैः
उपोद्धातपादे भार्गवच रिते पञ्चत्रिंशत्तमो ऽध्यायः
उवाच भार्गवं राममगस्त्यः कुंभसंभवः
मन्त्रस्य सिद्धिं येन त्वं शीघ्रमेव समाप्नुयाः
यो यतेत नरस्तस्य सिद्धिर्भवति सत्वरम्
पातालं नागराचैन्द्रैः शोभितं परया मुदा