भूयः प्रपच्छ तं कान्तं ज्ञानतत्त्वार्थमादरात्
यदस्य दर्शनात्ते ऽद्य जातं ज्ञानमतीद्रियम्
कर्मणा येन संप्राप्तावावां तिर्यग्जनिं प्रभो
वर्णयामास चरितं मृग्यश्चैवात्मनस्तदा
संसारे ऽस्मिन्नमहाभागे भावो ऽस्य भवकारणम्
पुरा द्रविडदेशे तु नानाऋद्धिसमाकुले
पिता मे शिवदत्तो ऽभून्नाम्ना शास्त्रविशारदः
ज्येष्ठो रामो ऽनुजस्तस्य धमस्तस्यानु जः पृथुः
उपनीय क्रमात्सर्वाञ्छिवदत्तो महायशाः
चत्वारो ऽपि वयं तत्र वेदाध्ययनतत्पराः
गत्वारण्यं फलान्यंबुसमित्कुशमृदो ऽन्वहम्
एकदा तु वयं सर्वे संप्राप्ता पर्वते वने
सर्वे स्नात्वा महानद्यामुषसि प्रीतमानसाः
शालस्तमालैः प्रियकैः पनसैः कोविदारकैः
जंबूभिः सहकारैश्च कट्फलैर्बृहतीद्रुमैः
स्निग्धच्छायैः समाहृष्टनानापक्षिनिनादितैः
गचैन्द्रैः शारभाद्यैश्च सेवितं कन्दरागतैः
सुगन्धिभिर्वृतं चान्यैर्वातोद्धूतपरगिभिः
शृङ्गैः समुल्लिखन्तं च व्योम कौतुकसं युतम्
गर्ज्जतमिव संसक्तं व्यालाद्यैर्मृगपक्षिभिः
नास्मार्ष्म चात्मनात्मानं वियुक्ताश्च परस्परम्
निर्झरापात शिरसि पातुकामा जलं प्रिये
तत्र प्राप्तो यदृच्छातो जगृहे तां भयर्दिताम्
अत्युच्चवत्त्वात्पतितो मृतश्चैणीमनुस्मरन्
जातो भद्रे न जाने वै क्व गाता भ्रातरो ऽग्रजाः
भूतं भविष्यं च तथा शृणु भद्रे वदाम्यहम्
रामस्यास्य भयात्सो ऽपि भक्षितो हरिणा धुना
अवाभ्यां तु जलं पीतं मध्यमे पुष्करे त्विह
तेनानेकभवोत्पन्नं पातकं नाशमागतम्
गमिष्यावः शुभांल्लोकान्येषु गत्वा न शोचति