पितरं कार्त्तवीर्येण दृष्ट्वा चैव तिरस्कृतम्
तत्पूर्तिकामो ह्यगमद्ब्रह्मलोकं पुरा ह्ययम्
तस्य त्वाज्ञां समादाय गतो ऽसौ शिवसन्निधिम्
स कृपालुर्महादेवः सभाज्य भृगुनन्दनम्
स्वीयं पाशुपतं चास्त्रमन्यास्त्रग्राममेव च
सो ऽयमत्रागतो भद्रे मेत्रसाधनतत्परः
शतवर्षाणि चाप्यस्य गतानि सुमहात्मनः
आत्रास्ति कारणं भक्तिः साव वै त्रिविधा मता
शिवस्य नारदस्यापि शुकस्य च महात्मनः
बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः
वसिष्ठादिमुनीशानां मन्वादीनां शुभेक्षणे
मध्यभक्तिरयं रामो नित्यं यमपरायणः
इत्युक्ता त्वरितं कान्तं सा मृगी हृष्टमानसा
र्हदृग् ज्ञानं तव कथं संजातं तद्वदाधुना
शृणु प्रिये महाभागे ज्ञानं पुण्येन जायते
पुण्यात्मा भार्गवश्चायं कृष्णाभक्तो जितेन्द्रियः
अद्यैव विदितं मे ऽभूद्रासस्यास्य महात्मनः
यद्यत्करिष्यते चैव तदपि ज्ञानगोचरम्
कवचं मन्त्रसहितं ह्यपि वर्षायुतायुतैः
कृष्णप्रेमामृतं नाम स्तोत्रमुत्तमभक्तिदम्
स मुनिर्ज्ञाततत्त्वार्थः सानुकंपो ऽभयप्रदः
श्रीकृष्णचारितं सर्वं नामभिर्ग्रथितं यतः
ततः संसिद्ध कवचौ राजनं हैहयाधिपम्
त्रिः सप्तकृत्वो निर्भूपां करिष्यत्यवनीं प्रिय
आत्मनो मृगभावस्य कारणं ज्ञातवांश्च ह
उपोद्धातपादे भार्गवचरिते चतुस्त्रिंशत्तमो ऽध्यायः
भगवद्भक्तिसंलीनमानसानुग्रहः कुतः
श्रुत्वा मृगमुखात्सर्वं भार्गवस्य विचेष्टितम्
पुनः प्रपच्छ किं नाथ तन्मे वद सविस्तरम्
यथा पृष्टं तया सो ऽस्यै वर्णयामास तत्त्ववित्