गतं वर्षशतं तत्र ध्यानयुक्तस्य नित्यदा
मध्यमं पुष्करं तत्र ददर्शाश्वर्यमुत्तमम्
व्याधस्य मृगयां प्राप्तो धर्मतप्तो ऽतिपीडितः
रामस्य पश्यतस्तत्र सरसस्तटमागतः
उभो तौ पिबतस्तत्र जलं शङ्कितमानसौ
स दृष्ट्वा तत्र संविष्टं रामं भार्गवनन्दनम्
स चिन्तयामास तदा शङ्कितो भृगुनन्दनात्
कथमेतस्य हन्म्येतौ पश्यतो मृगयामृगौ
तस्थौ तत्रैव रामस्य भयात्संत्रस्तमानसः
तर्कयामास मेधावी किमत्र भयकारणम्
केनैतौ कारणेनाहो शङ्कितौ चकितेक्षणौ
चेनैतौ जलपाने ऽपि पश्यतश्चकितेक्षणौ
लक्षयेते खिन्नसर्वाङ्गौ कम्पयुक्तौ यतस्त्विमौ
शिष्येण संयुतो रामो यावत्तौ चापि संस्थितौ
रामं दृष्ट्वा महात्मानं कथां तौ चक्रतुर्मुदा
अस्य वीरस्य सांनिध्ये भयं नैवावयोर्भवेत्
दृष्टमात्रो हि मुनिना भस्मीभूतो भविष्यति
मृगश्चोवाच हर्षेण समाविष्टः प्रियां स्वकाम्
जाने ऽहमपि रामस्य प्रभावं सुमहात्मनः
सचाने न महाभागस्त्रातो व्याघ्रभयातुरः
पितरं कार्त्तवीर्येण दृष्ट्वा चैव तिरस्कृतम्
तत्पूर्तिकामो ह्यगमद्ब्रह्मलोकं पुरा ह्ययम्
तस्य त्वाज्ञां समादाय गतो ऽसौ शिवसन्निधिम्
स कृपालुर्महादेवः सभाज्य भृगुनन्दनम्
स्वीयं पाशुपतं चास्त्रमन्यास्त्रग्राममेव च
सो ऽयमत्रागतो भद्रे मेत्रसाधनतत्परः
शतवर्षाणि चाप्यस्य गतानि सुमहात्मनः
आत्रास्ति कारणं भक्तिः साव वै त्रिविधा मता
शिवस्य नारदस्यापि शुकस्य च महात्मनः
बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः