ॐ सर्वेशाय स्वाहेति केशान्मम सदावतु
ॐ माधवाय स्वाहेति भालं मे सर्वदावतु
नमो गोपीजनेशाय ऊरू पातु सदा मम
यशोदानन्दनायेति नमोतो जङ्घके ऽवतु
वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मे ऽवतु
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु
नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः
ऐशान्यां मे सदा पातु वृन्दावनविहार कृत्
सदैव मामधः पातु बलिध्वंसी महाबलः
स्वप्ने जागरणे चैव पातु मां माधवः स्वयम्
इति ते कथितं भूप सर्वाघौघविनाशनम्
मया श्रुतं शिवमुखात्प्रवक्तव्यं न कस्यचित्
कण्ठे वा दक्षिणे बाहौ सो ऽपि विष्णुर्न संशयः
यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः
राजसूर्यसहस्राणि वाजपेयशतानि च
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम्
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम्
यो भवेत्सिद्धकवचो विजयी स भवेद् ध्रुवम्
एतत्तु कवचं वत्स न देयं संकटे ऽपि च
इदं धृत्वा तु कवचं चक्रवर्त्ती भवान्भव
यदिदं कवचं मह्यं प्रकाशितमनामयम्
भवतस्तु कृपापात्रं जातो ऽहमधुना विभो
यथा समापितो वीरस्तन्मे विस्तरतो वद
उभौ तौ समरे वीरौ जघटाते कथं गुरो
कार्त्तवीर्यस्य भूपस्य रामस्य च महात्मनः
चकार माधनं तस्य भक्त्या परमया युतः
उवासपुष्करे राम शतवर्षमतन्द्रितः
आनीय काननाद्भूप प्रायच्छदकृतव्रणः
आराधयामास विभुं कृष्णं कल्मषनाशनम्