नमस्कृत्य शिवं शान्तं दुर्गां स्कन्दं गणेश्वरम्
सिद्धं कृत्वा शिवोक्तं तु मन्त्रं कवचमुत्तमम्
विनिवृत्तो गृहं प्रागात्पितुः स्वस्य भृगूद्वहः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्वात्रिंशत्तमो ऽध्यायः
कवचं वद सर्वत्र त्रैलोक्यविजयप्रदम्
मन्त्र च सिद्धिद शश्वत्साधकानां सुखावहम्
स्वाहान्तो ऽयं महामन्त्रो दशार्णो भुक्तिमुक्तिदः
देवता कृष्ण उदितो विनियोगो ऽखिलाप्तये
ऋषिश्छन्दश्च जगती देवो राजेश्वरः स्वयम्
प्रणवो मेशिरः पातु श्रीकृष्णाय नमः सदा
कृष्णेति पातु नेत्रे मे कृष्णस्वाहेति तारकाम्
ॐ गोविन्दाय स्वाहेति नासिकां पातु संततम्
क्लीं कृष्णाय नमः कर्णौं पातु कल्पतरुर्मम
ॐ गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु
ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा
राधिकेशाय स्वाहेति कण्ठं मे पातु सर्वदा
ॐ गोपेशाय स्वाहेति स्कन्धौ पातु सदा मम
उदरं पातु मे नित्यं मुकुन्दाय नमो मनुः
ॐ विष्णवे नमः स्वाहा बाहुयुग्मं ममावतु
नमो नारायणायेति नखरन्ध्रं ममावतु
ॐ सर्वेशाय स्वाहेति केशान्मम सदावतु
ॐ माधवाय स्वाहेति भालं मे सर्वदावतु
नमो गोपीजनेशाय ऊरू पातु सदा मम
यशोदानन्दनायेति नमोतो जङ्घके ऽवतु
वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मे ऽवतु
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु
नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः
ऐशान्यां मे सदा पातु वृन्दावनविहार कृत्
सदैव मामधः पातु बलिध्वंसी महाबलः
स्वप्ने जागरणे चैव पातु मां माधवः स्वयम्