लीयन्ते च पुनर्यस्मिंस्तं नमामि जगन्मयम्
सोर्द्ध्वलोकं सपातालं तं नमामि हरं परम्
मूर्त्तयो ऽष्टौ जगत्पूज्यास्तं यज्ञं प्रणमाम्यहम्
रर्त्ता पुना रुद्रवपुस्तथान्ते तं कालरूपं शरणं प्रपद्ये
उत्थाप्य तं वामकरेण लीलया दध्रे तदा मूर्ध्नि करं कृपार्णवः
उवाच वामामभिवीक्ष्य चाप्युमां कृपार्द्रदृष्ट्याखिलकामपूरकः
विनिर्द्दिशाहं तव भक्तिभावतः प्रीतः प्रदद्यां भवतो मनोगतम्
पुनश्च नत्वा विबुधां पति गुरुं कृपासमुद्रं समुवाच सत्वरम्
रामो नाम जगद्वन्द्यं त्वामहं शरणं गतः
तं प्रसाधय विश्वेश वाञ्छितं काममेव मे
आतिथ्यं कृतवान् देव जमदग्निः पिता मम
सा धेनुस्तं मृतं दृष्ट्वा गवां लोकं जगाम ह
जगाम स्वपुरं पश्चान्माता मे प्रारुदद्भृशम्
आजगाम महादेव ह्यहमप्यागतो वनात्
सांत्वयित्वा स मन्त्रज्ञो ऽजीवयत्पितरं मम
प्रतिज्ञां कृतवान्देव सात्वयन्मातरंस्वकाम्
तावत्संख्यमहं पृथ्वीं करिष्ये क्षत्रवर्जिताम्
महादेवो ह्यतो नाथ त्वत्सकाणमिहागतः
बभूवानम्रवदनस्छिन्तयानः क्षणं तदा
उवाच च महाराज भार्गवं वैरसाधकम्
त्रिः सप्तकृत्वः कोपेन साहसस्ते महान्बटो
भ्रूभङ्गलीलया येन रावणो ऽपि निराकृतः
शक्तिरत्यर्थवीर्या च तं कथं हन्तुमिच्छसि
न चान्यः शङ्करात्पुत्र सत्कार्यं कर्त्तुमीश्वरः
अभ्यधाद्भद्रया वाया जमदग्निसुतं विभुः
दास्यामि मन्त्रं दिव्यं ते कवचं च महामते
त्रिः सप्तकृत्वो निर्भूपां महीं चापि करिष्यसि
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम्
नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा
गदां शक्तिं च परशुं शूलं दण्डमनुत्तमम्