क्षुधाविष्टास्तदा सर्वा जग्मुस्ता वै स्वयम्भुवम्
ब्रह्मा स्वयंभूर्भगवान् ज्ञात्वा तासां मनीषितम्
ग्रस्ताः पृथिव्या त्वोषध्यो ज्ञात्वा प्रत्यरूहत्पुनः
दुग्धेयं गौस्तदा तेन बीजानि वसुधातले
ओषध्यः फलपाकाताः क्षणसप्तवशास्तु ताः
प्रियंगव उदारास्ते कोरदुष्टाः सवामकाः
हरिकाश्चरकाश्चैव गमः सप्तदश स्मृताः
श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः
ग्रामारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश
अफालकृष्टास्ताः सर्वा ग्राम्यारण्यश्चतुर्द्दश
मूलैः फलैश्च रोहैश्चगृह्णन्पुष्टाश्च यत्फलम्
ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह
ततस्तासां च पृत्त्यर्थै वार्तोपायं चकार ह
ततः प्रभृति चौषध्यः कृष्टपच्यास्तु जज्ञिरे
मर्यादां स्थापयामास ययारक्षत्परस्परम्
इतरेषां कृतत्राणान् स्थापयामास क्षत्रियान्
सत्यं बूत यथाभूतं ध्रुवं वो ब्रह्मणास्तु ताः
क्रीतानि नाशयंति स्म पृथिव्यां ते व्यवस्थिताः
सेवंतश्च द्रवंतश्च परिचर्यासु ये रताः
तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः
पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन्
ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः
याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम्
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ
सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः
कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम्
प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम्
वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम्
स्थानान्येतानि वर्णानां योग्याचारवतां सताम्
ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान्