दिव्यपाशुपतं चापि दास्यत्येव न संशयः
उपोद्धातपादे भार्गवचरिते एकत्रिंशत्तमो ऽध्यायः
प्रसन्नचेताः सुभृशं शिवलोकं जगाम ह
अथनिर्वचनीयं च योगिगम्यं परात्परम्
यदधो ध्रुवलोकश्च सर्वलोकपरस्तु सः
उपमानेन रहितं नानाकौतुकसंयुतम्
कोटिकल्पतपः पुण्याः शान्ता निर्मत्सरा जनाः
योगेन योगिना सृष्टं स्वेच्छया शङ्करेण हि
सरोवरशतैर्दिव्यैः पद्मरागविराजितैः
सुवर्णरत्नरचितप्राकारेण समावृतम्
चतुर्द्वारसमायुक्तं शोभितं मणिवेदिभिः
नानाचित्रविचित्रैश्च शोभितैः सुमनोहरैः
ददर्शरामो धर्मात्मा विचित्रमिव संगतः
महाकरालदन्तास्यौ विकृतारक्तलोचनौ
विभूतिभूषिताङ्गौ च व्याघ्रचर्मांबरौ च तौ
तौ दृष्ट्वा मनसा भीतः किञ्चिदाह विनीतवत्
ईश्वराज्ञां समादाय मामथाज्ञप्तुमर्हथ
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ च तौ
तत्रातिरम्यां सिद्धौघैः समाकीर्णां सभां द्विजः
तत्रापश्यच्छिवं शान्तं त्रिनेत्रं चन्द्रशेखरम्
विभूतिभूषिताङ्गं च नागयज्ञोपवीतिनम्
पञ्चाननं दशभुजं भक्तानुग्रहविग्रहम्
स्तूयमानं च योकीन्द्रैः प्रमथप्रकरैर्मुदा
मूर्ध्ना नमाम तं दृष्ट्वा रामः परमया मुदा
नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः
स्तोतुं प्रचक्रमे विद्वान्गिरा गद्गदया विभुम्
भुजङ्गभूषणं चोग्रं नृकपालस्रगुज्ज्वलम्
ब्रह्मादिरूपधृग्ज्येष्ठस्तं त्वां वेद कृपार्णवम्
ज्ञानबुद्ध्योरसाध्यं च निराकारं नमाम्यहम्
न यं विदुर्यथातत्त्वं तं नमामि परात्परम्