सृष्टि रेषा भगवतः संभवेत्कृपया बटो
तन्नाशकारिणी चैव प्रतिज्ञा भवता कृता
एकस्य राज्ञो दोषेण पितुः परिभवेन च
आविर्भूता तिरोभूता हरेरेव पुनः पुनः
यद्वायासेन ते कार्यसिद्धिर्भवितुमर्हति
पृथिव्यां बहवो भूपाः संति शङ्करकिङ्कराः
बिभ्रतः कवचान्यङ्गे शक्तीश्चापि दुरासदाः
उपाये तु समारब्धे सर्वे सिध्यन्त्युपक्रमाः
दुर्ल्लङ्घ्यं वैष्णवं तेजः शिवशक्तिर्विजेष्यति
यथाकथं च विज्ञाप्य शङ्करं लभदुर्लभम्
दिव्यपाशुपतं चापि दास्यत्येव न संशयः
उपोद्धातपादे भार्गवचरिते एकत्रिंशत्तमो ऽध्यायः
प्रसन्नचेताः सुभृशं शिवलोकं जगाम ह
अथनिर्वचनीयं च योगिगम्यं परात्परम्
यदधो ध्रुवलोकश्च सर्वलोकपरस्तु सः
उपमानेन रहितं नानाकौतुकसंयुतम्
कोटिकल्पतपः पुण्याः शान्ता निर्मत्सरा जनाः
योगेन योगिना सृष्टं स्वेच्छया शङ्करेण हि
सरोवरशतैर्दिव्यैः पद्मरागविराजितैः
सुवर्णरत्नरचितप्राकारेण समावृतम्
चतुर्द्वारसमायुक्तं शोभितं मणिवेदिभिः
नानाचित्रविचित्रैश्च शोभितैः सुमनोहरैः
ददर्शरामो धर्मात्मा विचित्रमिव संगतः
महाकरालदन्तास्यौ विकृतारक्तलोचनौ
विभूतिभूषिताङ्गौ च व्याघ्रचर्मांबरौ च तौ
तौ दृष्ट्वा मनसा भीतः किञ्चिदाह विनीतवत्
ईश्वराज्ञां समादाय मामथाज्ञप्तुमर्हथ
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ च तौ
तत्रातिरम्यां सिद्धौघैः समाकीर्णां सभां द्विजः
तत्रापश्यच्छिवं शान्तं त्रिनेत्रं चन्द्रशेखरम्