यथागतं ययौ विद्वान्भविष्यत्कालपर्ययात्
उपोद्धातपादे भार्गवचरिते त्रिंशत्तमो ऽध्यायः
यच्चकार महावीर्य्यो राज्ञः क्रुद्धो हि कर्मणा
रामः प्रोवाच संक्रुद्धो मुञ्चञ्छ्वासान्मुहर्मुहुः
कार्त्तवीर्यस्य यो विद्वांश्चक्रे ब्रह्मवधोद्यमम्
शुभं वाप्यशुभं सर्वे प्रकुर्वन्ति विमोहिताः
कार्त्तवीर्यं निहत्याजौ पितुर्वैरं प्रसाधये
रक्षिष्यते तथाप्येनं संहरिष्यामि नान्यथा
जमदग्निरुवाचेदं पुत्रं साहसभाषिणम्
यच्छ्रुत्वा मानवाः सर्वे जायन्ते धर्मकारिणः
न कस्मैचित्प्रकुप्यन्ति निन्दितास्ताडिता अपि
तेषां चैवाक्षया लोकाः सततं साधुकारिणाम्
न च क्षोभमवाप्नोति स साधुः परिकीर्त्थते
क्षमयार्ऽहणतां प्राप्ताः साधवो ब्राह्मणा वयम्
तस्मान्निवारये त्वाद्य क्षमां कुरु तपश्चर
रामः प्रोवाच पितरं क्षमाशीलमरिन्दमम्
भवता शम उद्दिष्टः साधूनां सुमहात्मनाम्
कर्त्तव्यो दुष्टचेष्टेषु न शमः सुखदो भवेत्
देह्याज्ञां माननीयाद्य साधये वैरमात्मनः
करिष्यसि यथा भावि तथा नैवान्यथा भवेत्
स यद्वदिष्यति विभुस्तत्कर्त्ता नात्र संशयः
जगाम ब्रह्मणो लोकमगम्यं प्राकृतैर्जनैः
स्वर्णप्राकारसंयुक्तं मणिस्तंभैर्विमूषितम्
रत्नसिंहासने रम्ये रत्नभूषणभूषितम्
विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा
परिपूर्णतमं ब्रह्म ध्यायतं यतमानसम्
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगूद्वहः
पप्रच्छ कुशलं वत्स कथमागमनं कृथाः
वृत्तान्तं कार्त्तवीर्यस्य पितुः स्वस्य महात्मनः
उवाच रामं धर्मिष्ठं परिणामसुखावहम्