उत्थायास्मै ददुश्चापि सत्कृत्य परमासनम्
पप्रच्छ किमिदं वृत्तं तत्सर्वं ते न्यवेदयन्
संजीविन्या विनया तं सिषेच प्रोच्चरन्निदम्
तेनासौ जीवताच्छीघ्रं प्रसुप्त इवचोत्थितः
समुत्तस्थावथार्चीकः साक्षाद्ग्ररुरिवापरः
ननाम भक्त्या नृपते कृताञ्जलिरुवाच ह
धन्यो ऽहं कृतकृत्यो ऽहं सफलं जीवितं च मे
भगवन्किं करोम्यद्य शुश्रूषां तव मानद
इत्युक्त्वा सहसाऽनीतं रामेणार्ध्यं मुदान्वितः
तज्जलं शिरसाधत्त सकुटुंबो महामनाः
भगवन् किं कृतं तेन राज्ञा दुष्टेन पातकम्
साधुबुद्ध्यास दुष्टात्मा किं चकार महामते
चिरं ध्यात्वा समालोच्य कारणं प्राह भूपते
यश्च वै कृतवान्पापं सर्वज्ञस्य तवानघ
द्विजापराधतो मूढ वीर्यं ते विनशिष्यते
अयं रामो महावीर्यं प्रसह्यनृपपुङ्गवम्
यस्मादुरः प्रतिहतं त्वया मातर्ममाग्रतः
त्रिः सप्तकृत्वो निःक्षत्रां करिष्ये पृथिवीमिमाम्
भाविनोर्ऽथस्य च बलात्करिष्यत्येव मानद
दत्तात्रेयाद्धरेरंशाल्लब्धबोधो महामतिः
यथागतं ययौ विद्वान्भविष्यत्कालपर्ययात्
उपोद्धातपादे भार्गवचरिते त्रिंशत्तमो ऽध्यायः
यच्चकार महावीर्य्यो राज्ञः क्रुद्धो हि कर्मणा
रामः प्रोवाच संक्रुद्धो मुञ्चञ्छ्वासान्मुहर्मुहुः
कार्त्तवीर्यस्य यो विद्वांश्चक्रे ब्रह्मवधोद्यमम्
शुभं वाप्यशुभं सर्वे प्रकुर्वन्ति विमोहिताः
कार्त्तवीर्यं निहत्याजौ पितुर्वैरं प्रसाधये
रक्षिष्यते तथाप्येनं संहरिष्यामि नान्यथा
जमदग्निरुवाचेदं पुत्रं साहसभाषिणम्
यच्छ्रुत्वा मानवाः सर्वे जायन्ते धर्मकारिणः