तस्मादतीतमखिलं त्यक्त्वा कृत्यं विचिन्तय
रामः संस्तंभयामास शनैरात्मानमात्मना
त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत्
रुदतीमलमंबेति सांत्वयामास मातरम्
त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम्
हनिष्ये भुवि सर्वत्र सत्यमेतद्ब्रविमि ते
नास्त्येव नूनमायातमतिक्रान्तस्य वस्तुनः
कृच्छ्राद्धैर्यं समालंब्य तथेति प्रत्यभाषत
अग्नौ सत्कर्त्तुमारेभे देहं राजन्यथविधि
पुत्रान्सर्वान्समाहूय त्विदं वचनमब्रवीत्
अनुगन्तुमिहेच्छामि तन्मे ऽनुज्ञातुमर्हथ
भर्त्रा विरहिता तेन प्रवर्त्तिष्ये विनिन्दिता
यथा तेन प्रवर्त्तिष्ये परत्रापि सहानिशम्
भर्तुर्मम भविष्यामि पितृलोकप्रियातिथिः
प्रतिभूय न वक्तव्यं यदि मत्प्रियमिच्छथ
अग्निं प्रविश्य भर्त्तारमनुगन्तुं मनोदधे
समाभाष्यातिगंभीरा वागुवाचाशरीरीणी
मा कार्षीः साहसं भद्रे प्रवक्ष्यामि प्रियं तव
न मर्त्तव्यन्त्वया सर्वो जीवन्भद्राणि पश्यति
निमित्तमन्तरीकृत्य किञ्चिदेव शुचिस्मिते
भवित्री चिररात्राय बहुकल्याण भाजनम्
तद्वाक्यगौरवाद्धर्षमवापुस्तनयाश्च ते
शाययित्वा निवाते तु परितः समुपाविशन्
निमत्तानि शुभान्यासन्ननेकानि महान्ति च
निषेदुः सहिता मात्रा काङ्क्षन्तो जीवितं पितुः
विधेर्बलेन मतिमांस्तत्रागच्छद्यदृच्छया
सर्वशास्त्रार्थवित्प्राज्ञः सकलासुरवन्दितः
यथाहतान्मृतान्देवैरुत्थापयति दानवान्
प्रणीतमनुजीवन्ति सर्वे ऽद्यापीह पार्थिवाः
ददर्श तदवस्थांस्तान्सर्वान्दुःखपरिप्लुतान्