पश्यतां सर्वभूतानां गगनं प्रत्यपद्यत
प्रसह्य बद्ध्वा तद्वत्सं जग्मुरेवातिनिर्घृणाः
स पापस्तरसा राज्ञः सन्निधिं समुपागमत्
तद्व्रत्तान्तमशेषेण व्याचचक्षे ससाध्वसः
उपोद्धातपादेर्ऽजुनोपाख्याने एकोनत्रिंशत्तमो ऽध्यायः
उद्विग्नचेताः सुभृशं चिन्तयामास नैकधा
ब्रह्मस्वहरणे वाञ्छा तद्धत्या चातिगर्हिता
वचनं तर्हि तां जह्यां विमूढात्मा गतत्रपः
स्वपुरं प्रतिचक्राम सबलः सानुगस्ततः
आश्रमात्सहसा राजन्विनिश्चक्राम रेणुका
निश्चेष्टं परितं भूमौ ददर्श पतिमात्मनः
अन्वाहतेवाशनिना मूर्छितान्यपतद्भुवि
पतित्वोत्थाय सा भूयः सुस्वरं प्ररुरोद ह
अश्रुपूर्ममुखी दीना पतिता शोकसागरे
हा धिगत्यन्तशान्त त्वं नैव काङ्क्षेत चेदृशम्
क्षिप्त्वानाथामगाधे मां क्व च यातो ऽसि मानद
यासि यत्र त्वमेकाकी तत्र मां नेतुमर्हसि
न दीर्यते महाभाग कठिनाः खलु योषितः
चुक्रोश रामरामेति भृशं दुःखपरिप्लुता
अकृतव्रणसंयुक्तः स्वाश्रमाय न्यवर्त्तत
पश्यन्नुद्विग्नहृदयस्तूर्णं प्रापाश्रमं विभुः
नविभूतेव शोकेन प्रारुदद्रेणुका पुनः
उभाभ्यामपि हस्ताभ्यामुदरं समताडयत्
कुररीमिव शोकार्त्ता दृष्ट्वा दुःखमुपेयिवान्
नेत्राभ्यामश्रुपूर्णाभ्यां तस्थौ भूमावर्धोमुखः
किमिदं भृगुशार्दूल नैतत्वय्युपपाद्यते
धृतिमन्तो महान्तस्तु दुःखं कुर्वति न व्यये
त्यज शोकं महाबाहो न तत्पात्रं भवदृशाः
शोकस्तस्यावकाशं त्वं कथं त्दृदि नियच्छसि
रुदतीं बत वैधव्यशं कापहतचेतनाम्