आदाय गोरत्नभूतां धेनुं मे दातुमर्हसि
राजा वदान्यः स कथं ब्रह्मस्वमभिवाञ्छति
गवायुतेन तस्मात्त्वं तस्मै तां दातुमर्हसि
हविर्धानीं च वै तस्मान्नोत्सहे दातुमञ्जसा
देहि धेनुमिमामेकां तत्ते श्रेयो भविष्यति
गुरुणा याचितं किं ते वचसा नृपतेः पुनः
यथा बलेन नीतायां तस्यां त्वं किं करिष्यसि
विप्रो ऽहं किं करिष्यामि स्वेच्छावितरणं विना
प्रसह्य नेतुमारेभे मुनेस्तस्य पयस्विनीम्
उपोद्धातपादे ऽष्टाविंशतितमो ऽध्यायः
ब्रह्मस्वं नापहर्त्तव्यं पुरुषेण विजानता
आयुर्जाने परिक्षीणं न चेदेतत्करिष्यति
स्वयं वा यदि सायुच्येद्विनशिष्यति पार्थिवः
शतायुषोर्ऽजुनादन्यः को न्विच्छति जिजीविषुः
बद्ध्वा तां गां दृढैः पाशैर्विचकर्ष बलान्वितः
रुरोध तं यथाशक्ति विकर्षन्तं पायस्विनीम्
जग्राह सुदृढं कण्ठे वाहुभ्यां तां महामुनिः
उत्सारयध्वमित्येनमादिदेश स्वसैनिकान्
भर्त्राज्ञया प्रसह्यैनं परिवव्रुः समन्ततः
ते समुत्सारयन् धेनोः सुदूरतरमन्तिकात्
न चुक्रोधाक्रोधनत्वं सतो हि परमं धनम्
जगत्सर्वं क्षयं तस्य चिन्तयन्न प्रचुक्रुधे
रामेणाभूत्ततो नित्यं शान्त एव महातपाः
निपपात महातेजा धरण्यां गतचेतनः
किङ्करानादिशच्छीघ्रं धेनोरानयने बलात्
कशाभिरभिहन्यन्त चकृषुश्च निनीषया
हन्यमाना भृशं तैश्च चुक्रुधे च पयस्विनी
आकृष्य पाशान् सुदृढान् कृत्वात्मानममोचयत्
हुंहारवं प्रकुर्वाणा सर्वतो ऽह्यपतद्रुषा
राजमन्त्रिबलं सर्वं व्यद्रावयदमर्षिता