दत्त्वा मूल्यं गवाश्वाद्यमृषेर्थेनुः प्रगृह्यताम्
तपोधनानां हि कुतो रत्नसंग्रहणादरः
तस्मात्ते सर्वथा धेनुं याचितः संप्रदास्यति
संगृह्य वित्तं विपुलं धेनुं तां प्रतिदास्यति
इति मे वर्त्तते बुद्धिः कथं वा मन्यते भवान्
दत्त्वा चाभीप्सितं तस्मै तां गामानय मन्त्रिक
निवृत्य प्रययौ शीघ्रं जमदग्नेरथाश्रमम्
समिदानयनार्थाय रामो ऽपि प्रययौ वनम्
प्रणम्य मुनिशार्दूलमिदं वचनमब्रवीत्
रत्नभूता च धेनुः सा भुवि दोग्ध्रीष्वनुत्तमा
आदाय गोरत्नभूतां धेनुं मे दातुमर्हसि
राजा वदान्यः स कथं ब्रह्मस्वमभिवाञ्छति
गवायुतेन तस्मात्त्वं तस्मै तां दातुमर्हसि
हविर्धानीं च वै तस्मान्नोत्सहे दातुमञ्जसा
देहि धेनुमिमामेकां तत्ते श्रेयो भविष्यति
गुरुणा याचितं किं ते वचसा नृपतेः पुनः
यथा बलेन नीतायां तस्यां त्वं किं करिष्यसि
विप्रो ऽहं किं करिष्यामि स्वेच्छावितरणं विना
प्रसह्य नेतुमारेभे मुनेस्तस्य पयस्विनीम्
उपोद्धातपादे ऽष्टाविंशतितमो ऽध्यायः
ब्रह्मस्वं नापहर्त्तव्यं पुरुषेण विजानता
आयुर्जाने परिक्षीणं न चेदेतत्करिष्यति
स्वयं वा यदि सायुच्येद्विनशिष्यति पार्थिवः
शतायुषोर्ऽजुनादन्यः को न्विच्छति जिजीविषुः
बद्ध्वा तां गां दृढैः पाशैर्विचकर्ष बलान्वितः
रुरोध तं यथाशक्ति विकर्षन्तं पायस्विनीम्
जग्राह सुदृढं कण्ठे वाहुभ्यां तां महामुनिः
उत्सारयध्वमित्येनमादिदेश स्वसैनिकान्
भर्त्राज्ञया प्रसह्यैनं परिवव्रुः समन्ततः
ते समुत्सारयन् धेनोः सुदूरतरमन्तिकात्