अहो ऽस्य तपसः सिद्धिर्लोक विस्मयदायिनी
किं मे सकलराज्येन योगर्द्ध्या वाप्यनल्पया
अनयोत्पादिता नूनं संपत्स्वर्गसदामपि
अस्या धेनोरहं मन्ये कलां नार्हति षोडशीम्
चन्द्रगुप्तो ऽब्रवीन्मन्त्री कृताञ्जलि पुटस्तदा
रक्षितेन च राज्येन पुर्या वा किं फलं तव
वर्त्तते नार्द्धमपि ते राज्यं शून्यं तव प्रभो
भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः
धेनो तस्यां क्षणेनैव विलीनं पश्यतो मम
एवंप्रभावा सा यस्य तस्य किं दुर्लं भवेत्
यदि ते ऽनुमतं कृत्यमाख्येयमनुजीविभिः
ब्रह्मस्वं नापहर्तव्यमिति मे शङ्कते मनः
गर्गो मतिमतां श्रेष्ठो गर्हयन्निव भूपते
ब्रह्मस्वसदृशं लोके दुर्जरं नेह विद्यते
कुलं समूलं दहति ब्रह्मस्वारणिपावकः
पुत्रपौत्रान्तफलदं विपाककटु पार्थिव
किन्नामासन्न कुरुते नेत्रास द्विप्रलोभितम्
आदानं चिन्तयानो हि बाह्मणेष्वभिवाञ्छति
मा कृथास्तद्धि लोकेषु यशोहानिकरं तव
यशांशि कर्मणानेन संप्रतं माव्यनीवशः
तत्प्रसादसमुन्नद्धा मज्जयं त्यनयोन्मुखाः
तन्मतानुप्रवृत्तिश्च राजा सद्यो विषीदति
आत्मना सह दुर्बुद्धिर्लोहनौरिव मज्जयेत्
मतमस्य सुदुर्बुद्धेर्नानुवर्त्तितुमर्हसि
आक्षिप्य मन्त्री राजानमिदं भूयो ह्यभाषत
महान्ति राजकार्याणि द्विजैर्वेत्तुं न शक्यते
विना वै भोजनादाने कार्यं विप्रो न विन्दति
प्रतिसंग्राहयणीयश्च नाधिकं साधितं क्वचित्
नोचेद्राज्यं परित्यज्य गच्छस्वतपसे वनम्
प्रसह्य हरणे वापि नाधर्मस्ते भविष्यति