अनभ्यस्तं हि राजेन्द्र ननु सर्वं हि दुष्करम्
आप्तस्तु भवतो नूनं सा गौरवसमुन्नतिः
प्रहसन्निव तं भूयो वचनं प्रत्यभाषत
अस्माभिमहिमा येन विस्मितं सकलं जगत्
इतो न गन्तुमिच्छन्ति सैनिका मे महामुने
ध्रियन्ते सर्वदा नूनमचिन्त्यं ब्रह्मवर्चसम्
ध्रुवं कर्त्तुं हि लोकानामवस्थात्रितयं क्रमात्
गमिष्यामि पुरीं ब्रह्मन्ननुजानातु मां भवान्
संभावयित्वा नितरां तथेति प्रत्यभाषत
सैन्यैः परिवृतः सर्वैः संप्रतस्थे पुरीं प्रति
अहो ऽस्य तपसः सिद्धिर्लोक विस्मयदायिनी
किं मे सकलराज्येन योगर्द्ध्या वाप्यनल्पया
अनयोत्पादिता नूनं संपत्स्वर्गसदामपि
अस्या धेनोरहं मन्ये कलां नार्हति षोडशीम्
चन्द्रगुप्तो ऽब्रवीन्मन्त्री कृताञ्जलि पुटस्तदा
रक्षितेन च राज्येन पुर्या वा किं फलं तव
वर्त्तते नार्द्धमपि ते राज्यं शून्यं तव प्रभो
भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः
धेनो तस्यां क्षणेनैव विलीनं पश्यतो मम
एवंप्रभावा सा यस्य तस्य किं दुर्लं भवेत्
यदि ते ऽनुमतं कृत्यमाख्येयमनुजीविभिः
ब्रह्मस्वं नापहर्तव्यमिति मे शङ्कते मनः
गर्गो मतिमतां श्रेष्ठो गर्हयन्निव भूपते
ब्रह्मस्वसदृशं लोके दुर्जरं नेह विद्यते
कुलं समूलं दहति ब्रह्मस्वारणिपावकः
पुत्रपौत्रान्तफलदं विपाककटु पार्थिव
किन्नामासन्न कुरुते नेत्रास द्विप्रलोभितम्
आदानं चिन्तयानो हि बाह्मणेष्वभिवाञ्छति
मा कृथास्तद्धि लोकेषु यशोहानिकरं तव
यशांशि कर्मणानेन संप्रतं माव्यनीवशः