निद्रया लं महाबुद्धे प्रतिवुध्यस्व सांप्रतम्
क्षीराब्दौ शेषशयनाद्यथापङ्कजलोचनः
चकारावहितः सम्यग्जयादिकमशेषतः
कृत्वा दूर्वाञ्जनादर्शमङ्गल्यालम्बनानि च
निष्क्रम्य च पुरात्तस्मादुपतस्थे च भास्करम्
रचिताञ्जलयो राजन्नेमुश्च नृपसत्तमम्
ननाम पादयोस्तस्य किरीटेनार्कवर्चसा
प्रश्रयावनतं साम्ना तमुवाचास्यतामिति
उवाच रजनी व्युष्टा सुखेन तव किं नृप
शक्यं मृगसधर्माणां येन केनापि वर्त्तितुम्
अनभ्यस्तं हि राजेन्द्र ननु सर्वं हि दुष्करम्
आप्तस्तु भवतो नूनं सा गौरवसमुन्नतिः
प्रहसन्निव तं भूयो वचनं प्रत्यभाषत
अस्माभिमहिमा येन विस्मितं सकलं जगत्
इतो न गन्तुमिच्छन्ति सैनिका मे महामुने
ध्रियन्ते सर्वदा नूनमचिन्त्यं ब्रह्मवर्चसम्
ध्रुवं कर्त्तुं हि लोकानामवस्थात्रितयं क्रमात्
गमिष्यामि पुरीं ब्रह्मन्ननुजानातु मां भवान्
संभावयित्वा नितरां तथेति प्रत्यभाषत
सैन्यैः परिवृतः सर्वैः संप्रतस्थे पुरीं प्रति
अहो ऽस्य तपसः सिद्धिर्लोक विस्मयदायिनी
किं मे सकलराज्येन योगर्द्ध्या वाप्यनल्पया
अनयोत्पादिता नूनं संपत्स्वर्गसदामपि
अस्या धेनोरहं मन्ये कलां नार्हति षोडशीम्
चन्द्रगुप्तो ऽब्रवीन्मन्त्री कृताञ्जलि पुटस्तदा
रक्षितेन च राज्येन पुर्या वा किं फलं तव
वर्त्तते नार्द्धमपि ते राज्यं शून्यं तव प्रभो
भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः
धेनो तस्यां क्षणेनैव विलीनं पश्यतो मम
एवंप्रभावा सा यस्य तस्य किं दुर्लं भवेत्