कक्षान्तराणि नृपतिः शनकैरतीत्य त्रीणि क्रमेण च ससंभ्रमकञ्चुकीनि
तत्र प्रदीपदधिदर्पणगन्धपुष्पदूर्वाक्षतादिभिरलं पुरकामिनीभिः
ताभिः समाभिविनिवेशितमाशु नानारत्नप्रवेकरुचिजालविराजमानम्
तस्मिन्गृहे नृप तदीयपुरन्ध्रिवर्गः स्वासीनमाशु नृपतिर्विविधार्हणाभिः
तस्मिन्नशेषदिवसोचितकर्म सर्वं निर्वर्त्य हैहयपतिः स्वमतानुसारम्
कृत्वा दिनान्तसमयोचितकर्म चैव राजा स्वमन्त्रिसचिवानुगतः समन्तात्
तत्रासने समुपविश्य पुरोधमन्त्रिसामन्तनायकशतैः समुपास्यमानः
ततश्चिरं विविधवाद्यविनोदनृत्तप्रेक्षाप्रवृत्तहसनादिकथाप्रसंगः
इत्थं विशामधिपतिर्भृशमानिशार्द्धं नानाविहारविभवानुभवैरनेकैः
तद्राजसैन्यमखिलं निजवीर्यशौर्यसंपत्प्रभावमहिमानुगुणं गृहेषु
सैन्यानि तानि नृपतेर्विविधान्नपानसद्भक्ष्यभोज्यमधुमांसपयोघृताद्यैः
एवं तदा नरपतेरनुयायिनस्ते नानाविधोचितसुखानुभवप्रतीताः
अध्यास्य रत्ननिकरैरति शैभि भद्रं निद्रामसेवत नरेद्र चिरं प्रतीतः
उपोद्धातपादेर्ऽजुनोपाख्याने सप्तविंशतितमो ऽध्यायः
प्रवोधयितुमव्यग्रा जगुरुच्चैर्निशात्यये
समस्तश्रुतिसुश्राव्यप्रशस्तमधुरस्वरम्
जगुर्गेयं मनोहारि तारमन्द्रलयान्वितम्
स्वपन्तं विविधा वाचो बुबोधयिषवः शनेः
विवर्द्धमानया नूनं तव वक्त्रांबुजश्रिया
तमांसि भिन्दन्नादित्यः संप्राप्तो ह्युदयं विभो
निद्रया लं महाबुद्धे प्रतिवुध्यस्व सांप्रतम्
क्षीराब्दौ शेषशयनाद्यथापङ्कजलोचनः
चकारावहितः सम्यग्जयादिकमशेषतः
कृत्वा दूर्वाञ्जनादर्शमङ्गल्यालम्बनानि च
निष्क्रम्य च पुरात्तस्मादुपतस्थे च भास्करम्
रचिताञ्जलयो राजन्नेमुश्च नृपसत्तमम्
ननाम पादयोस्तस्य किरीटेनार्कवर्चसा
प्रश्रयावनतं साम्ना तमुवाचास्यतामिति
उवाच रजनी व्युष्टा सुखेन तव किं नृप
शक्यं मृगसधर्माणां येन केनापि वर्त्तितुम्