प्रत्यग्रयौवनभरासवल्गुगीर्भिः स प्रेममन्थरकटाक्षनिरीक्षणाभिः
देवाङ्गनातुलितसौभगसौकुमार्यरूपाभिलाषमधुराकृतिरञ्जिताभिः
श्रोणीभराक्रमणखेदपरिश्रितास्मृगारक्तपावकरसारुणिताङ्घ्रिभूभिः
स्रग्दामचुम्बितसकुन्तलकेशपाशकाञ्चीकलापपरिशिञ्जितनूपुराभिः
भावेषु पार्थिवनिजप्रियधैर्यबन्धसर्वापहारचतुरेषु कृतान्तराभिः
वीणाप्रवीणतरपाणितलाङ्गुलीभिर्गंभीरचक्रचटुवादरतोत्सुकाभिः
कामप्रयोगनिपुणाभिरहीनसंपदौदार्यरूपगुणशीलसमन्विताभिः
पुंभिश्च तद्गुणगणोचितरूपशोभैरुद्भासितैर्गृहचरैः परितः परीतम्
पौरैरशेषार्थगुणैः समन्तादध्यास्यमानं परिपूर्णकामैः
रथाश्वमातङ्गखरोष्ट्रगोजायोग्यैरनेकैरपि मन्दिरैश्च
विप्रादिकानां रथिसारथीनां गृहैस्तथा मागधबन्दिनां च
महाधनोपस्करसाधुनिर्मितैर्गृहैश्च शुभ्रैर्गणिकाजनानाम्
चित्रैर्ध्वचैश्चापि पताकिकाभिः शुभ्रैः पटैर्मण्डपिकाभिरुन्नतैः
नानारवाढ्यरमणीयतटाकवापीसरोवरैश्चापि जलोपपन्नैः
पर्यन्तरोपितमनोरमनागकेतकीपुन्नागचंपकवनैश्च पतत्रिजुष्टैः
संलक्ष्यमाणपरितोपवनालिभिश्च संशोभितं जगति विस्मयनीयरूपैः
इत्थ सुरासुरमनोरमभोगसंपद्विस्पष्टमानविभवं नगरं नरेद्र
ज्ञात्वा ततो मुनिवरो द्विजहोमधेन्वा संपादितं नरपते रुचिरातिथेयम्
गत्वा विशामधिपतेस्तरसा समीपं संप्रश्रयं मुनिसुतस्तमिदं बभाषे
राजा ततो मुनिवरेण कृताभ्यनुज्ञः संप्राविशत्पुरवरं स्वकृते कृतं तत्
अन्तः प्रविश्य नगरर्द्धिमशेषलोकसंमोहिनीम् भिसमीक्ष्य स राजवर्यः
गच्छन्सुरस्त्रीनयना लियूथपानैकपात्रोचितचारुमूर्त्तिः
तं प्रस्थितं राजपथात्समन्तात्पौराङ्गनाश्चन्दनवारिसिक्तैः
अभ्यागतार्हणसमुत्सुकपौरकान्ता हस्तारविन्दगलितामललाजवर्षैः
तत्रत्यपौरवनिताञ्जनरत्नसारमुक्ताभिरप्यनुपदं प्रविकीर्यमामः
ब्राह्मीं तपःश्रिय मुदारगणमचिन्त्यां लोकेषु दुर्लभतरां स्पृहणीयशोभाम्
मेने च हैहयपतिर्भुवि दुर्लभेयं क्षात्री मनोहरतरा महिता हि संपत्
मध्येपुरं पुरजनोपचितां विभूतिमालोकयन्सह पुरोहितमन्त्रिसार्थैः
राजा ततो मुनिवरोपचितां सपर्यामात्मानुरूपमिह सानुचरो लभस्व
पौरेः समेत्य विविधार्हणपाणिभिश्च मार्गे मुदा विरचिताजलिभिः समन्तात्