अत्र मध्यं प्रशंसंति ह्रस्वं काष्ठविवर्ज्जितम्
नगरादर्द्धविषकंभः खेटं पानं तदूर्द्धतः
द्विक्रोशः परमा सीमा क्षेत्रसीमा चतुर्द्धनुः
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु
नृवाजिरथनागानामसंबाधस्तु संचरः
त्रिका रथ्योपरथ्याः स्युर्द्विका श्चाप्युपरत्यकाः
धृतिमार्गस्तूर्द्धषष्ठं क्रमशः पदिकः स्मृतः
कृतेषु तेषु स्थानेषु पुनर्गेहगृहाणि वै
तथा कर्तुं समारब्धाश्चिंतयित्वा पुनः पुनः
अत ऊर्द्ध गताश्चान्या एवं तिर्यग्गताः परा
यथा कृतास्तु तैः शाखास्त स्माच्छालास्तु ताः स्मृताः
तस्मात्ताश्च स्मृताः शालाः शालात्वं तासु तत्स्मृतम्
तस्माद् गृहाणि शालाश्च प्रासादाश्चैव संज्ञिता
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे तदा
तासां वृष्ट्युदकानीह यानि मिष्टगतानि च
ये परस्तादपां स्तोकाः संपाताः पुथिवीतले
पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे
तदौषधेन वर्तंते प्रजास्त्रेता मुखे तदा
अवश्यभाविनार्थेन त्रेतायुगवशेन च
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम्
ब्रह्मणो मानसास्ते वै उत्पन्ना ये जनादिह
तत आवर्त्तमानास्ते त्रेतायां जज्ञिरे पुनः
भाविताः पूर्वजातीषु ख्यात्या ते शुभपापयोः
वीतलोभा जितात्मानो निवसंति स्मृतेषु वै
तेषां कर्माणि कुर्वंति तेभ्यश्चैवाबलाश्च ये
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम्
प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकता यथा
फलैर्गृह्णंति पुष्पैश्च तथा मूलैश्च ताः पुनः