एवं हत्वा मृगान् घोरान्हिंस्रप्रायानशेषतः
मध्ये दिनकरे प्राप्ते ससैन्यः स तदा नृपः
अवतीय ततस्तस्यास्तोये सबलवाहनः
स्नात्वा पीत्वा च सलिलं स तस्याः सुखशीतलम्
विक्रीड्य तोये सुचिरमुत्तीर्य सबलो नृपः
आलंबपाने तिग्मांशौ ससैन्यः सानुगो नृपः
स गच्छन्नेव ददृशे नर्मदा तीरमाश्रितम्
ततो निवृत्य सैन्यानि दूरे ऽवस्थाप्य पार्थिवः
गत्वा तदाश्रमं रम्यं पुरोहितसमन्वितः
अभिनं द्याशषा तं वै जमदग्निर्नृपोत्तमम्
संभावयित्वा तां पूजां विहितां मुनिना तदा
तमासीनं नृपवरं कुशासनगतो मुनिः
सह संकथयंस्तेन राज्ञा मुनिवरोत्तमः
ततः स राजा सुप्रीतो जमदग्नि मभाषत
समग्रवाहनबलो ह्यहं तस्मान्महामुने
अथवा त्वं तपःशक्त्या कर्तुमातिथ्यमद्य मे
अन्यथा चेत्खलैः सैन्यैरत्यर्थं मुनिसत्तम
इत्येवमुक्तः स मुनिस्तं प्राहस्थीयतां क्षणम्
इत्युक्त्वाहूय तां दोग्ध्रीमुवाचायं ममातिथिः
दुदोह नृपतेराशु यद्योग्यं मुनिगौरवात्
विभूतिभेदैरविचिन्त्यरुपमनन्यसाध्यं सुरभिप्रभावात्
पूर्णेन्दुशुभ्राभ्रविषक्तशृङ्गैः प्रासादसंघैः परिवीतमन्तः
पृथग्विमिश्रैर्भवनैरनेकैः सद्भासितं नेत्रमनोभिरामैः
तुलाकपाटर्गलकुड्यदेहलीनिशान्तशालाजिरशोभितैर्भृशम्
स्तंभेषु कुड्येषु च दिव्यरत्नविचित्रचित्रैः परिशोभमानैः
स भक्ष्यभोज्यादिभि रन्नपानैरुपेतभाण्डोपगतैकदेशैः
तस्याश्रमं सन्नगरोपमानं बभौ वधूभिश्चमनोहराभिः
उपोद्धातपादेर्ऽजुनोपाख्याने षड्विंशतितमो ऽध्यायः
विनिर्ममे तेषु गृहेषु पश्चात्तद्योग्यनारीनरवृन्दजातम्
सहावभावाभिरुदारचेष्टाश्रीकान्तिसौन्दर्यगुणान्विताभिः