गात्राल्हादविवर्द्धन्यां वेलायां मन्दवायुना
स्वाध्या यदक्षैर्बहुभिरजिनांबरधारिभिः
प्रैषेषूच्चार्यमाणेषु हूयमानेषु वह्निषु
ज्वलदग्निशिखाकारे तमस्तपनतेजसि
सवितर्युदयं याति नैशे तमसि नश्यति
कृतमैत्रादिको राजा मृगयां हैहयेश्वरः
बलैः सर्वैः समुदितैः सवाजिरथकुञ्जरैः
महता बलभारेण नमयन्वसुधातलम्
स्वबलौघपदक्षेपप्रक्षुण्णावनिरेणुभिः
संप्रवश्य वनं घोरं विन्ध्योद्रेर्बलसंचयैः
परिवार्य वनं तत्तु स राजा निजसैनिकैः
आकर्णकृष्टकोदण्डयोधमुक्तैः शितेषुभिः
उदग्रवेगपादातखड्गखण्डितविग्रहाः
प्रचण्डशाक्तिकोन्मुक्तशक्तिनिर्भिन्नमस्तकाः
नाराचा विद्धसर्वाङ्गाः सिंहर्क्षशरभादयः
एवं सवागुरैः कैश्चित्पतद्भिः पतितैरपि
आत्तैर्विक्रोशमानैश्च भीतैः प्राणभयातुरैः
वराहसिंहशार्दूलश्वाविच्छशकुलानि च
कृष्णसारान्द्वीपिमृगान्रक्तखड्गमृगानवि
बालान्स्तनन्धयान्यूनः स्थविरान्मिथुनान्गणान्
एवं हत्वा मृगान् घोरान्हिंस्रप्रायानशेषतः
मध्ये दिनकरे प्राप्ते ससैन्यः स तदा नृपः
अवतीय ततस्तस्यास्तोये सबलवाहनः
स्नात्वा पीत्वा च सलिलं स तस्याः सुखशीतलम्
विक्रीड्य तोये सुचिरमुत्तीर्य सबलो नृपः
आलंबपाने तिग्मांशौ ससैन्यः सानुगो नृपः
स गच्छन्नेव ददृशे नर्मदा तीरमाश्रितम्
ततो निवृत्य सैन्यानि दूरे ऽवस्थाप्य पार्थिवः
गत्वा तदाश्रमं रम्यं पुरोहितसमन्वितः
अभिनं द्याशषा तं वै जमदग्निर्नृपोत्तमम्