आश्लिष्य नेत्रसलिलैर्नन्दन्तौ पर्यषिञ्चताम्
विक्षन्तौ तस्य चाङ्गानि परिस्पृश्यापतुर्मुदम्
किं कृतं पुत्र को वायं कुत्र वा त्वमुपस्थितः
त्वयेतदखिलं वत्स कथ्यतां तथ्यमावयोः
उपोद्धातपादेर्ऽजुनोपाख्याने भार्गवचरिते पञ्चविंशतितमो ऽध्यायः
तयोरकथयत्सर्वमात्मना यदनुष्ठितम्
शंभोर्निदेशात्तीर्थानामटनं च यथाक्रमम्
हरप्रसादादत्रापि ह्यकृतव्रणदर्शनम्
कथयामास तद्रामः पित्रोः संप्रीयमाणयोः
हृष्टौ हर्षान्तरं भूयो राजन्नाप्नुवतावुभौ
प्रकुर्वंस्तद्विधेयात्मा भ्रातॄणां चाविशेषतः
इत्येष मृगयां गान्तुं चतुरङ्गबलान्वितः
ताराजालद्युतिहरैः समन्तादरुणांशुभिः
प्राभातिके गन्धवहे कुमुदाकरसंस्पृशि
व्याहरन्स्वाकुला वाचो मनःश्रोत्रसुखावहाः
तत्तोये मुनिवृन्देषु गृणात्सुब्रह्म शाश्वतम्
आशमं प्रति गच्छत्सु मुनिमुख्येषु कर्मिषु
होमार्थं मुनिकल्पाभिर्दुह्यमानासु धेनुषु
अग्निहोत्राकुले जाते सर्वभूतसुखावहे
वाशत्सु नीडान्निष्पत्य पतत्रिषु समन्ततः
गात्राल्हादविवर्द्धन्यां वेलायां मन्दवायुना
स्वाध्या यदक्षैर्बहुभिरजिनांबरधारिभिः
प्रैषेषूच्चार्यमाणेषु हूयमानेषु वह्निषु
ज्वलदग्निशिखाकारे तमस्तपनतेजसि
सवितर्युदयं याति नैशे तमसि नश्यति
कृतमैत्रादिको राजा मृगयां हैहयेश्वरः
बलैः सर्वैः समुदितैः सवाजिरथकुञ्जरैः
महता बलभारेण नमयन्वसुधातलम्
स्वबलौघपदक्षेपप्रक्षुण्णावनिरेणुभिः
संप्रवश्य वनं घोरं विन्ध्योद्रेर्बलसंचयैः