गच्छामि मोचितः शापात्त्वयाहमधुना दिवम्
पतितं द्विजपुत्रं तं कृपया व्यवपद्यत
परमृशत्तदङ्गानि शनैरुज्जीवयन्नृप
विलोकयन्ददर्शाग्रे भृगुश्रेष्ठमवस्थितम्
गतभीराह कस्त्वं भोः कथं वेह समागतः
तरक्षुर्भीषणाकारः साक्षान्मृत्युरिवापरः
हते ऽपि तस्मिन्नखिला भान्ति वै तन्मया दिशः
परमापदमापन्नं त्वं मां समुपजीवयन्
पुत्रस्तस्यास्मि तीर्थार्थी शालग्राममयासिषम्
नानामुनिगणैर्जुष्टं पुण्यं बदरिकाश्रमम्
प्रविशन्गहनं रम्यं प्रदेशालोकनाकुलम्
ततो दिष्टवशेनाहं प्राद्रवं भयपीडितः
इत्येष मम वृत्तान्तः साकल्येनोदितस्तव
कथयामास राजेन्द्र रामस्तस्मै यथाक्रमम्
स्थित्वा नातिचिरं कालमथ गन्तुमियेष सः
निष्क्रम्यावसथं पित्रोः संप्रतस्थे मुदान्वितः
रामेण रक्षितश्चाभुद्यस्माद्ध्याघ्रं विनिघ्नता
विप्रपुत्रस्य राजेन्द्र तदेतत्सो ऽकृतव्रणः
बभूव मित्रमत्यर्थं सर्वावस्थासु पार्थिव
दृष्ट्वा ख्यातिं च सो ऽभ्येत्य विनयेनाभ्यवादयत्
दिनानि कतिचित्तत्र न्यवसत्तत्प्रियेप्सया
आश्रमं प्रतिचक्राम शिष्यसंघैः समावृतम्
सुकन्याचापि तद्भार्यामवन्दत महामनाः
और्वाश्रमं समापेदे द्रष्टुकामस्तपोनिधिम्
उवास तत्र तत्प्रीत्या दिनानि कतिचिन्नृप
प्रतस्थे भार्गवः श्रीमानकृतव्रणसंयुतः
तौ च तं नृप संहर्षाच्चाशिषा प्रत्यनन्दताम्
कथयामास राजेन्द्र यथावृत्तमनुक्रमात्
जगामावसथं पित्रोर्मुदा परमया युतः
अवन्दत तयोः पादौ यथावद्भृगुनन्दन