भवतश्चरणांभोजे येन बुद्धिः स्थिरीकृता
विदुषामपि मूढेन स मया ज्ञायते कथम्
स्तोतुमप्यनलं सम्यक्त्वा महं जडधीर्यतः
प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः
मेघगंभीरया वाचा तमुवाच हसन्निव
तपसा मयि भक्त्या च स्तोत्रेण च विशेषतः
तुभ्यं तत्तदशेषेण दास्याम्यहमशेषतः
कृताञ्जलिपुटो भूत्वा राजन्निदमुवाच ह
भवतस्तदभीप्सामि हेतुमस्त्राण्यशेषतः
लोकेषु मांरणेजेता न भवेत्त्वत्प्रसादतः
ददौ रामाय सुप्रीतः समन्त्राणि क्रमान्नृप
प्रसादाभिमुखो रामं ग्राहयामास शङ्करः
इषुधी चाक्षयशरौ ददौ रामाय शङ्करः
सर्वशस्त्रसहं चित्रं कवचं च महाधनम्
स्वेच्छया धारणे शाक्तिं प्राणानां च नराधिप
तपः प्रभावं च महत्प्रददौ भार्गवाय सः
सहितः सकलैर्भूतैश्चामरैश्चन्द्रशेखरः
कृतकृत्यस्ततो रामो लब्ध्वा सर्वमभीप्सितम्
महोदर मदर्थे त्वमिदं सर्वमशेषतः
रथचापादिकं सर्वं प्रहिणु त्वं मदन्तिकम्
कृतकृत्यो गुरुजनं द्रष्टुं गन्तुमियेष सः
विवेश कन्दरं रामो भाविकर्मप्रचोदितः
व्याघ्रेण विप्रतनयं रुदन्तं भीतभीतवत्
तिष्ठतिष्ठेति तं व्याघ्रं वदन्नुच्चैरथान्वयात्
आससाद वने घोरं शार्दूलमतिभीषणम्
निपपात द्विजसुतस्त्रस्तः प्राणभयातुरः
तृणमूलं समादाय कुशास्त्रेणाभ्यमन्त्रयत्
दृष्ट्वा ननादसुभृशं रोदसी कम्पयन्निव
अकृतव्रणमेवाशु मोक्षयामास तं द्विजम्
गान्धर्वं वपुरास्थाय राममाहेति सादरम्