नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे
श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः
हिरण्यगर्भरूपाय हराय जगदादये
सत्त्वविज्ञानरुपाय पराय प्रत्यगात्मने
क्ल्पान्ते रुद्ररूपाय परापर विदे नमः
बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे
यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः
तव यत्तन्न जानन्ति योगिनो ऽपि सदामलाः
संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम्
तावद्भ्रमति संसारे पण्डितो ऽचेतनो ऽपि वा
भवतश्चरणांभोजे येन बुद्धिः स्थिरीकृता
विदुषामपि मूढेन स मया ज्ञायते कथम्
स्तोतुमप्यनलं सम्यक्त्वा महं जडधीर्यतः
प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः
मेघगंभीरया वाचा तमुवाच हसन्निव
तपसा मयि भक्त्या च स्तोत्रेण च विशेषतः
तुभ्यं तत्तदशेषेण दास्याम्यहमशेषतः
कृताञ्जलिपुटो भूत्वा राजन्निदमुवाच ह
भवतस्तदभीप्सामि हेतुमस्त्राण्यशेषतः
लोकेषु मांरणेजेता न भवेत्त्वत्प्रसादतः
ददौ रामाय सुप्रीतः समन्त्राणि क्रमान्नृप
प्रसादाभिमुखो रामं ग्राहयामास शङ्करः
इषुधी चाक्षयशरौ ददौ रामाय शङ्करः
सर्वशस्त्रसहं चित्रं कवचं च महाधनम्
स्वेच्छया धारणे शाक्तिं प्राणानां च नराधिप
तपः प्रभावं च महत्प्रददौ भार्गवाय सः
सहितः सकलैर्भूतैश्चामरैश्चन्द्रशेखरः
कृतकृत्यस्ततो रामो लब्ध्वा सर्वमभीप्सितम्
महोदर मदर्थे त्वमिदं सर्वमशेषतः
रथचापादिकं सर्वं प्रहिणु त्वं मदन्तिकम्