भक्त्या संपूजयामास स तस्मिन्नाश्रमेवशी
स्तोत्रैश्च विधिवद्भक्त्या परां प्रीतिमुपानयत्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने चतुर्विंशतितमो ऽध्यायः
प्रत्यक्षमगमत्तस्य सर्वैः सह मरुद्गणैः
वृषेन्द्रवाहनं शंभुं भूतकोटिसमन्वितम्
प्रणाममकरोद्भक्त्या शर्वाय भुवि भार्गवः
कृताञ्जलिपुटो रामस्तुष्टाव च जगत्पतिम्
नमस्ते जगतो नाथ नमस्ते त्रिपुरान्तक
नमस्ते सर्वभूतेश नमस्ते वृषभध्वज
नमस्ते सकलावास नमस्ते नीललोहित
कपालिने नमस्तुभ्यं सर्वलोकैकपालिने
नमो ऽस्तु पाशिने तुभ्यं कालकूटविषाशिने
नमो ऽखिलजगत्कर्मसाक्षिभूताय शंभवे
महाभोगीन्द्रहाराय शिवाय परमात्मने
कपर्दिने नमस्तुभ्यमन्धकासुरमर्द्दिने
गिरिजाकुचकाश्मीरविरञ्जितमहोरसे
योगिध्येयस्वरूपाय शिवायाचिन्त्यतेजसे
सकलागमसिद्धान्तसाररूपाय ते नमः
शङ्करायाखिलव्याप्तमहिम्ने परमात्मने
आदिमध्यान्तहीनाय नित्यायाव्यक्तमूर्त्तये
नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे
श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः
हिरण्यगर्भरूपाय हराय जगदादये
सत्त्वविज्ञानरुपाय पराय प्रत्यगात्मने
क्ल्पान्ते रुद्ररूपाय परापर विदे नमः
बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे
यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः
तव यत्तन्न जानन्ति योगिनो ऽपि सदामलाः
संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम्
तावद्भ्रमति संसारे पण्डितो ऽचेतनो ऽपि वा