प्रापयामास सहसा कैलासे नागसत्तमे
ददर्श भार्गवश्रेष्ठः शङ्करं भक्तवत्सलम्
गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः
भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरम्
प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम्
उपासर्पत्तु देवेशं भृगुवर्यः कृताञ्जलिः
बाष्पत्तु सिक्तकायेन स तु गत्वा हरान्तिकम्
नमस्ते देवदेवेति व्यालपन्नाकुलाक्षरम्
पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहम्
रामं मधुरया वाचा प्रहसन्नाह सादरम्
अशक्रुवन्तस्तान्हन्तुं गीर्वाणा मामुपागताः
जहि दैत्यगणान्सर्वान्समर्थस्त्वं हि मे मतः
शृण्वतां सर्वदेवानां सप्रश्रयमिदं वचः
तथापि विज्ञापयतो वचनं मे ऽवधारय
न शक्या हन्तुमेकस्य शक्याः स्यस्ते कथं मम
कथं हनिष्ये सकलान्सुरशत्रूननायुधः
शैवमस्त्रमयं तेजो ददौ तस्मै महात्मने
रामपाह प्रसन्नात्मा गीर्वाणानां तु शृण्वतम्
शक्तिर्भवतु ते सौम्य समस्तारिदुरासदा
स्वयमेव च वेत्सि त्वं यथावद्युद्धकौशलम्
जग्राह परशुं शैव विबुधारिवधोद्यतः
रुद्रभक्त्या समायुक्तो द्युत्येव सवितुर्महः
जगाम हन्तुमसुरान्युद्धाय कृतनिश्चयः
त्रैलोक्यविजयोद्युक्तै राजन्नतिभयङ्करम्
कुद्धः परशुना तेन निजघान महासुरान्
चचार समरे रामः क्रुद्धः काल इवापरः
क्षणेन नाशयामास रामः प्रहरतां वरः
ददृशुः सर्वतो रामं हतशेषा भयान्विताः
राममामन्त्र्य विबुधाः प्रययुस्त्रिदिवं पुनः
स्वमाश्रमं समापेदे तपस्यासक्तमानसः