स्रात्वा पवित्रदेहस्त्तवं सर्वाण्यस्त्राण्यवाप्स्यसि
रामस्य पश्यतो राजन्क्षणेन भवभागकृत्
परीत्यवसुधां सर्वां तीर्थस्नाने ऽकरोन्मनः
चकार सर्वतीर्थेषु स्नानं विधिवदात्मवान्
पितॄन्देवांश्च विधिवदतर्पयदतन्द्रितः
तीर्थेषु विधिवत्कुर्वन्परिचक्राम मेदिनीम्
प्रदक्षिणीकृत्य शनैः शुद्धदेहो ऽभवन्नृप
जगाम् भूयस्तं देशं यत्र पूर्वमुवास सः
भक्त्या संपूजयामास तपोभिर्न्नियमैरपि
बभूव सुचिरं राजन्संग्रामो रोमहर्षणः
अवापुरमरैश्वर्यमशेषमकुतोभयाः
शङ्करं शरणं चग्मुर्हतैश्वर्या ह्यरातिभिः
प्रार्थयामासुरसुरान्हन्तुं देवाः पिनाकिनम्
देवानां वरदः शंभुर्महो दरमुवाच ह
मुनिपुत्रो ऽतितेजस्वी मामुद्दिश्य तपस्यति
महोदर तपस्यन्तं तमिहानय माचिरम्
जगाम वायुवेगेन यत्र रामो व्यवस्थितः
तपस्यन्तमिदं वाक्यमुवाच विनयान्वितः
आगतो ऽहं तदागच्छ तत्पादांबुजसन्निधिम्
तदाज्ञां शिरसानन्द्य तथेति प्रत्यभाषत
प्रापयामास सहसा कैलासे नागसत्तमे
ददर्श भार्गवश्रेष्ठः शङ्करं भक्तवत्सलम्
गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः
भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरम्
प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम्
उपासर्पत्तु देवेशं भृगुवर्यः कृताञ्जलिः
बाष्पत्तु सिक्तकायेन स तु गत्वा हरान्तिकम्
नमस्ते देवदेवेति व्यालपन्नाकुलाक्षरम्
पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहम्
रामं मधुरया वाचा प्रहसन्नाह सादरम्