ब्रह्मर्षेश्च वसिष्ठस्य यत्र गोत्रानुकीर्त्तनम्
पितॄणां द्विप्रकाराणां स्वधायां तदनन्तरम्
दक्षस्य शापः सत्याश्च भृग्वादीनां च धीमताम्
प्रतिषेधश्च वैरस्य कीर्त्यते दोषदर्शनात्
प्रजापतेः कर्द्दमस्य कन्यायाः शुभलक्षणम्
तेषां नियोगो द्वीपेषु देशेषु च पृथक् पृथक्
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः
विस्तरान्मण्डलं चैव जंबूद्वीपसमुद्रयोः
नीलः श्वेतश्च शृङ्गी च कीर्त्यन्ते सप्त पर्वताः
तेषामन्तरविष्कंभा उच्छ्रायायामविस्तराः
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा
जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः
सप्रमाणा इमे लोकाः सप्तद्वीपा च मेदिनी
सर्वं चैतत्प्रधानस्य परिणामैकदेशिकम्
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः
महेन्द्राद्याः शुभाः पुण्या मानसोत्तरमूर्धनि
नागवीथ्यक्षवीथ्योश्च लक्षणं च प्रकीर्त्यते
लोकालोकस्य सन्ध्याया अह्नो विषुवतस्तथा
पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ
कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र च स्थिताः
कीर्त्यते धृतसामर्थ्यात्प्रजानां च शुभाशुभम्
कीर्त्यते भगवान्येन प्रसर्प्पति दिवः क्षयम्
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
वृद्धिक्षयौ च सोमस्य कीर्त्येते सोमकारितौ
कीर्त्यते शिशुमारस्य यस्य पुच्छे ध्रुवः स्थितः
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकर्मणाम्
प्रविभागश्चरश्मीनां नामतः कर्मतीर्थतः
वेश्यारूपात्प्रधानस्य परिमाणो महाद्भवः
पितॄणां द्विप्रकाराणां माहात्म्यं वा मृतस्य च
स्वर्गलोकगतानाञ्च प्राप्तानाञ्चाप्यधोगतिम्