परमात्मात्मसंभूतिरात्मारामः सनातनः
वपुषानेन संयुक्ते भवान्भवितुमर्हति
जात्यर्थसौष्ठवोपेता वाणी चौदार्यशालिनी
प्रत्यक्षतामुपगतो संदेहो ऽस्मत्परीक्षया
तस्मात्तुभ्यं नमस्तस्मै सुरुपं संप्रदर्शय
ममानेकविधा शङ्कामुच्येत येन मानसी
प्रणाशय स्वरूपस्य ग्रहणादेव केवलम्
कस्त्वं मे दर्शयात्मानं बद्धो ऽयं ते मयाञ्जलिः
उपविश्य ततो भूमौ ध्यानमास्ते समाहितः
निरुद्धप्राणसंचारो दध्यौ चिरमुदारधीः
चिन्तयामास देवेशं ध्यानदृष्ट्या जगद्गुरुम्
स्वभक्तानुग्रहकरं मृगव्याधस्वरूपिणम्
ददर्श देवं तेनैव वपुषा पुरतः स्थितम्
आविर्भूतं महाराज दृष्ट्वा रामः ससंभ्रमम्
पपात पादयोर्भूमौ भक्त्या तस्य महामतिः
शरणं भव शर्वेति शङ्करेत्यसकृन्नृप
राममुत्थापयामास प्रणा मावनतं भुवि
तुष्टाव देवदेवेशं पुरः स्थित्वा कृताजलिः
नमः शर्वाय शान्ताय शाश्वताय नमोनमः
नमस्ते भूतनाथाय भूतवासाय ते नमः
शिवाय बहुरूपाय त्रिनेत्राय नमोनमः
भूयो ऽनन्याश्रयाणां तु त्वमेव हि परायणम्
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि
त्वामृते तव सर्वेश सम्यक् शक्रोति वेदितुम्
नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः
तिष्ठन्तमाह भगवान्प्रसन्नात्मा जगन्मयः
भक्त्या चैवानपायिन्या ह्यपि भार्गवसत्तम
भक्तो हि मे त्वमत्यर्थं नात्र कार्या विचारणा
तस्माद्ब्रवीमि यत्त्वाहं तत्कुरुष्वाविशङ्कितम्
रौद्राणां तेन भूयो ऽपि तपो घोरं समाचर