घ्रुवं मिथ्याप्रवृत्तस्य न हि तुष्यति शङ्करः
प्रतपत्यबुधो मर्त्त्यस्त्वां विना कः मुदुर्मते
संपूज्य पूजकविद्धौ शंभोस्तव च संगमः
संपूजको ऽपि तस्य त्वं योग्यो नात्र विचारणा
शिरश्छित्त्वा पुनः शंभुर्ब्रह्महत्यामवाप्तवान्
उपदिष्टो ऽसि तत्कर्तुं नोचेदेवं कथं कृथाः
तपः सिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने
तपोव्याजेन गहने निर्जने संप्रवर्त्तसे
तपश्चरसि नानेन तपसा तत्प्रणश्यति
मातृद्रुहामवेहि त्वं न क्वचित्किल निष्कृतिः
स्वहस्तेन कथं राम मातरं कृत्तवानसि
त्वं पुनर्धार्मिको भूत्वा कामतो ऽन्यान्विनिन्दसि
अपर्याप्तमहं नन्यं परं दोषविमर्शनाम्
तर्हि गर्हय मां कामं निरुप्य मनसा स्वयम्
क्रियते प्राणिहननं निजधर्मतया मया
वर्त्तामि सापि मे वृत्तिर्विधात्रा विहिता पुरा
हनिष्ये चेत्तदधिकं तर्हि युज्येयमेनसा
तदेतत्संप्रधार्य त्वं निन्दवा मां प्रशंस वा
तदेव तेन कर्त्तव्यमापद्यपि कथञ्चन
अहं तु सर्वभावेन मित्रादिभरणे रतः
भूत्वा तु धार्मिकस्त्वं तु तपश्चर्तुमिहागतः
यथाजिह्वं भवेन्नात्र वचसापि समीहितुम्
तस्मादलं ते तपसा निष्फलेन भृगूद्वह
याहि राम त्वमन्यत्र यत्र वा न विदुर्जनाः
निरूप्य मनसा भूयस्तमुवाचाभिविस्मितम्
इन्द्रस्येवानुभावेन वपुरालक्ष्यते तव
सर्वज्ञस्यैव ते वाणी श्रूयते ऽतिमनोहरा
ईशानस्तपनो ब्रह्मा वायुः सोमो गुरुर्गुहः
अनुभावेन जातिस्ते हृदिशङ्कां तनोति मे
को वा त्वं वपुषानेन ब्रूहि मां समुपागतः