उवाच रोषताम्राक्षस्ताम्राक्षमिदमुत्तरम्
परिगर्हयसे येन कृतघ्नस्येव कांप्रतम्
अनागस्कारिणं दान्तं को ऽवमन्येत नामतः
दर्शनं सह संवासः संभाषणमथापि च
स्वसंश्रयं परित्यज्य क्वाहं यास्ये बुभुक्षितः
इतो ऽन्यस्मिन् गामिष्यामि दूरे नाहं विशेषतः
नाहं चालयितुं शक्यः स्थानादस्मात्कथञ्चन
तमुवाच पुनर्वाक्यमिदं राजन्भृगूद्वहः
खलकर्मरता नित्यं धिक्कृता सर्वजन्तुभिः
स कथं न परित्याज्यः सुजनैः स्यात्तु दुर्मते
शीघ्रमस्माद्व्रजान्यत्र नात्र कार्या विचारणा
यथा त्वं कण्टकादीनामसहिष्णुतया व्यथाम्
व्यथा चाभिहतानां तु विद्यते भवतो ऽन्यथा
एतद्विरुद्धाचरणान्नित्यं सद्भिर्विगर्हितः
हनिष्यसि कथं सत्सुनाप्नोषि वचनीयताम्
त्वया मे कृत्यदोषस्य हानिश्च न भविष्यति
अपसर्पणताबुद्धिमहमुत्पादये स्फुटम्
विरुद्धाचरणो नित्यं धर्मद्रिष् को लभेच्च शाम्
उवाच संक्रुद्ध इव व्याधरूपी पिनाकधृक्
कुतस्त्वं प्रथमो ज्ञानी कुतः शंभुः कुतस्तपः
घ्रुवं मिथ्याप्रवृत्तस्य न हि तुष्यति शङ्करः
प्रतपत्यबुधो मर्त्त्यस्त्वां विना कः मुदुर्मते
संपूज्य पूजकविद्धौ शंभोस्तव च संगमः
संपूजको ऽपि तस्य त्वं योग्यो नात्र विचारणा
शिरश्छित्त्वा पुनः शंभुर्ब्रह्महत्यामवाप्तवान्
उपदिष्टो ऽसि तत्कर्तुं नोचेदेवं कथं कृथाः
तपः सिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने
तपोव्याजेन गहने निर्जने संप्रवर्त्तसे
तपश्चरसि नानेन तपसा तत्प्रणश्यति
मातृद्रुहामवेहि त्वं न क्वचित्किल निष्कृतिः