चरामि समचित्तात्मा नानासत्त्वा मिषाशनः
अभक्ष्यागम्यपेयादिच्छन्दवस्तुषु कुत्रचित्
प्रपन्नो नाभिगमनं निवासमपि कस्यचित्
जानते तध्यथा सर्वे देशो ऽयं मदुपाश्रयः
इत्येष मम वृत्तान्तः कार्त्स्न्येन कथितस्तव
उद्यतो ऽन्यत्र वा गन्तुं किं वा तव चिकीर्षितम्
तूष्णीं क्षणमिव स्थित्वा दध्यौ किञ्चिदवाङ्मुखः
ब्रवीति च गिरो ऽत्यर्थं विस्पष्टार्थपदाक्षराः
विजातिसंश्रयत्वेन रमणीया तथा शराः
बभूवुर्भुवि देहे च स्वाभिप्रेतार्थदान्यलम्
उवाच शनकैर्व्याधं वचनं सूनृताक्षरम्
तपश्चर्तुमिहायातः सांप्रतं गुरुशासनात्
आराधयितुमस्मिंस्तु चिरायाहं समुद्यतः
त्रिनेत्रं पापदमनं शङ्करं भक्तवत्सलम्
आश्रमे ऽस्मिनसरस्तीरे नियमं समुपाश्रितः
उपैति तावदत्रैव स्थास्यामीति मतिर्मम
न चेद्भवति मे हानिः स्वकृतेर्नियमस्य च
स्वनिवासमुपायातस्तपस्वी च तथा मुनिः
तव चाप्यसुखोदर्कं मत्समीपनिषेवणम्
परित्यज्य सुखीभूया लोकयोरुभयोरपि
उवाच रोषताम्राक्षस्ताम्राक्षमिदमुत्तरम्
परिगर्हयसे येन कृतघ्नस्येव कांप्रतम्
अनागस्कारिणं दान्तं को ऽवमन्येत नामतः
दर्शनं सह संवासः संभाषणमथापि च
स्वसंश्रयं परित्यज्य क्वाहं यास्ये बुभुक्षितः
इतो ऽन्यस्मिन् गामिष्यामि दूरे नाहं विशेषतः
नाहं चालयितुं शक्यः स्थानादस्मात्कथञ्चन
तमुवाच पुनर्वाक्यमिदं राजन्भृगूद्वहः
खलकर्मरता नित्यं धिक्कृता सर्वजन्तुभिः
स कथं न परित्याज्यः सुजनैः स्यात्तु दुर्मते