ततस्तेनैव योगेन वर्त्तते मैथुनं तदा
अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदाभवत्
प्रणश्यंति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः
अभिध्यायंति ताः सिद्धिं सत्याभिध्यायिनस्तदा
वस्त्राणि च प्रसूयंते फलान्याभरणानि च
आन्वीक्षिकं महावीर्यं पुटके पुटके मधु
त्दृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विगतज्वराः
वृक्षांस्ताः पर्यगृह्णंत मधु वा माक्षिकं बलात्
प्रनष्टा प्रभुणा सार्द्धं कल्पवृक्षाः क्वचित्क्वचित्
वर्त्तंते चानया तासां द्वंद्वान्यत्युत्थितानि तु
द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा
पूर्व निकामचारास्ते ह्यनिकेता यथाभवन्
मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च
यथाजोषं यथाकामं समेषु विषमेषु च
ततस्तान्निर्मयामासुः खेटानि च पुराणि च
तेषामायामविष्कंभाः सन्निवेशांतराणि च
मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे
दश त्वंगुलपर्वाणि प्रादेश इति संज्ञितः
तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया
रत्निरंगुलपर्वाणि संख्यया त्वेकविशतिः
किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदंगुलः
धनुःसहस्त्रे द्वे तत्र गव्यूतिस्तौः कृता तदा
एतेन योजनेनेह सन्निवेशास्ततः कृताः
चतुर्थ कृतिमं दुग तस्य वक्ष्यामि निर्णयम्
रुचकः प्रतिकद्वारं कुमारीपुरमेव च
हस्तस्रोतो दशश्रेष्ठो नवहस्तोष्ट एव च
त्रिविधानां च दुर्गाणां पर्वतोदकधन्विनाम्
योजनादर्द्धविष्कम्भमष्टभागाधिकायतम्
छिन्नकर्णविकर्णं च व्यजनाकृतिसंस्थितम्
चतुरस्रयुतं दिव्यं प्रशस्तं तैः पुरं कृतम्