व्यक्तमेवाचलेन्द्राणामधिराज्यपदे स्थितः
एवं संचिन्तयानः स हिमाद्रिवनगह्वरे
आससाद वने तस्मिन्विपुले भृगुपुङ्गवः
कुमुदोत्पलकह्लारनिकरैरुपसोभितम्
अन्यैश्च जलचैर्वक्षैः सर्वतः समलङ्कृतम्
जीवजीवकचक्राह्वकुररभ्रमरोत्करैः
शफरीमत्स्यसंघैश्च विचरद्भिरितस्ततः
आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम्
स तस्य तीरे विपुलं कृत्वाश्रमपदं शुभम्
शाकमूलफलाहारो नियतं नियतेन्द्रियः
भृगूपदिष्टमार्गेण भक्त्या परमया युतः
अनिकेतः स वर्षासु शिशिरे जलसंश्रयः
रिपून्निर्जित्य कामादीनूर्मिषषट्कं विधूय च
यमैः सनियमैश्चैव शुद्धदेहः समाहितः
जितपद्मासनो मौनी स्थिरचित्तो महामुनिः
धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान्
स्वस्थान्तः करणो मैत्रः सर्वबाधाविवर्जितः
ध्येयावस्थि तचित्तात्मा निश्चलेद्रियदेहवान्
जपंश्च देवदेवेशं ध्यायंश्च स्वमनीषया
ततः स निष्फलं रूपमैश्वरं यन्निरञ्जनम्
आनन्दमात्रमचलं व्याप्ताशेषचराचरम्
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे वसिष्ठसगरसंवादे अर्चुनोपाख्याने जामदग्न्यतपश्चरणं नाम द्वाविंशतितमो ऽध्यायः
रहस्येकान्तनिरतं नियतं शंसितव्रतम्
ज्ञानकर्मवयोवृद्धा महान्तः शंसितव्रताः
ख्यापयन्तस्तपः श्रेष्ठं तस्य राजन्महात्मनः
संभावयन्तस्ते रामं मुनयो वृद्धसंमताः
दूरादेव महान्तस्ते पुण्यक्षेत्रनिवासिनः
प्रशस्य तस्य ते सर्वेप्रययुः स्वं स्वमाश्रमम्
प्रसन्नचेता नितरां बभूव नृपसत्तम