आकुलीकृतपर्यन्तसहकारवनान्तरम्
अनेकविहगारावबधिरीकृतकाननम्
वनान्तमारुताकीर्णैरलङ्कृतमहीतलम्
निर्झराणां महारावैः समन्ताद्बधिरीकृतम्
पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः
कपित्थपनसाशोकसहकारेगुदाशनैः
प्रियालनीपबकुलबन्धूकाक्षतमालकैः
बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि
पुत्रजीवाभयारिष्टलोहोदुंबरपिप्पलैः
निरन्तरतरुच्छायासुदूरविनिवारितैः
नानापक्वफलास्वादबलपुष्टैः प्लवेगमैः
तत्र तत्रातिरम्यैश्च शिलाकुहरनिर्गतैः
सारोवरैश्च विपुलैः कुमुदोत्पलमण्डितैः
समासाद्यथ शैलेन्द्रं तुषारशिशिरं गिरिम्
तस्य प्रविश्य गहनं वनं रामो महामनाः
स तत्र विचरन्दिक्षु हरिणीभिः समन्ततः
स तत्र कुसुमामोदगन्धिभिर्वनवायुभिः
विविधाश्च स्थरीः सूक्ष्ममुपरिक्रम्य भार्गवः
अहो ऽयं सर्वशैलानामाधिपत्ये ऽभिषेचितः
अस्य शैलाधिराजत्वं सुव्यक्तमभिलक्ष्यते
नितंबस्थलसंसक्ततुषारनिचयैग्यम्
निबिडश्रितनीहारनिकरेण तथोपरि
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः
मृगेन्द्राहतदन्तीन्द्रकुंभस्थलपरिच्युतैः
नानावृक्षलतावल्लीपुष्पालङ्कृतमूर्द्धजः
नानाधातुविचित्राङ्गः सर्वरत्नविभूषितः
गजाश्वमुखयूथैश्च समन्तात्परिवारितः
विविक्तगह्वरास्थानमध्यसिंहासनाश्रयः
दृष्ट्वा जनैरनासाद्यो महाराजाधिराजवत्
मयूरैरुपनृत्यद्भिर्गायद्भिश्चैव किन्नरैः