सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित्
द्रवद्धिमाशिलाजातुजलशान्तदवानलम्
स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित्
तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित्
यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम्
मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित्
प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित्
गवयैः खुरसंक्षुण्णशिलाप्रस्थतटङ्क्वचित्
युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित्
सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित्
गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित्
भेद्यमानाखिलशिलागंभीरकुहरं क्वचित्
इतरेतरसंमर्दं विप्रभग्नदृषत्क्वचित्
करेणुमाद्रवन्मत्तगजाकलितकाननम्
गहनेषु गुरुत्राससाशङ्कविहरन्मृगम्
क्रीडितं चमरीयूथैर्मन्दमन्दविचारिभिः
सतालनादैरुदिनैर्भृताशेषदिशामुखम्
अलक्तकरसक्लिन्नचरणाङ्कितभूतलम्
प्रवृत्तनृत्तं परितो विततोदग्रबर्हिभिः
गात्राह्लादकरैर्मन्दं वीज्यमानं वनानिलैः
आकुलीकृतपर्यन्तसहकारवनान्तरम्
अनेकविहगारावबधिरीकृतकाननम्
वनान्तमारुताकीर्णैरलङ्कृतमहीतलम्
निर्झराणां महारावैः समन्ताद्बधिरीकृतम्
पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः
कपित्थपनसाशोकसहकारेगुदाशनैः
प्रियालनीपबकुलबन्धूकाक्षतमालकैः
बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि
पुत्रजीवाभयारिष्टलोहोदुंबरपिप्पलैः
निरन्तरतरुच्छायासुदूरविनिवारितैः