आशीर्भिरभिनन्द्याथ भृगुस्तं प्रीत मानसः
श्रुणु वत्स वचो मह्य यत्त्वां वक्ष्यामि सांप्रतम्
गच्छ पुत्र ममादेशाद्धिमवन्तं महागिरिम्
तत्रगत्वा महाभाग कृत्वाश्रमापदं शुभम्
प्रीतिमुत्पाद्य तस्य त्वं भक्त्यानन्यगया चिरात्
तरसा तव भक्त्या च प्रीतो भवति शङ्करः
तुष्टे तस्मिञ्जगन्नाथे शङ्करे भक्तवत्सले
त्वया हितार्थं देवानां करणीयं सुदुष्करम्
तस्मात्त्वं देवदेवेशं समाराधय शङ्करम्
भक्त्या परमया युक्तस्ततो ऽभीष्टमवाप्स्यसि
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे एकविंशति तमौध्यायः
रामस्तेनाभ्यनुज्ञातश्चकार गमने मनः
परिष्वक्तस्तथा ताभ्यामाशीर्भिराभिनन्दितः
निश्चक्रमाश्रमात्तस्मात्तपसे कृतनिश्चयः
हिमवन्तं गिरिवरं ययौ रामो महामनाः
वनानि मुनिमुख्यानामावासांश्चात्यगाच्छनैः
तीर्थेषु क्षेत्रमुख्येषु निवसन्वा ययौ शनैः
आससादच लश्रेष्ठं हिमवन्तमनुत्तमम्
ददर्श विपुलैः शृङ्गैरुल्लिखन्तमिवांबरम्
रत्नौषधीभिरभितः स्फुरद्भिरभिशोभितम्
सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित्
द्रवद्धिमाशिलाजातुजलशान्तदवानलम्
स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित्
तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित्
यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम्
मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित्
प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित्
गवयैः खुरसंक्षुण्णशिलाप्रस्थतटङ्क्वचित्
युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित्
सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित्