सितश्मश्रुजटाकूर्चब्रह्मसूत्रोपशोभितम्
वामेतरोरुमध्यास्त वामजङ्घेन जानुना
व्याख्यानमुद्राविलसत्सव्यपाणितलांबुजम्
सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थसंहतिम्
पितुः पितामहं द्दष्ट्वा रामस्तस्य महात्मनः
तमागतमुपालक्ष्य तत्प्रभावप्रधर्षिताः
तावदूभृगुरमेयात्मा तदागमनतोषितः
रामो ऽपि तमुपागम्य विनयावनताननः
अभिवाद्य यथान्यायं ख्यातिं च विनयान्वितः
तैश्च सर्वैर्मुदोपेतैराशीर्भिरभिवर्द्धितः
उपविष्टं ततो राममाशीर्भिरभिनन्दितम्
कुशलं खलु ते वत्स पित्रोश्च किमनामयम्
किमर्थमागतो ऽत्र त्वमधुनामम सन्निधिम्
ततोरामो यथान्यायं तस्मै सर्वमशेषतः
पितुर्मातुश्च वृत्तान्त भ्रातॄणां च महात्मनाम्
एतदन्यच्च सकलं भृगोः सप्रश्रयं मुदा
श्रुत्वैतदखिलं राजन्रामेण समुदीरितम्
एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः
ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः
सो ऽभिगम्य तमासीनमभिवाद्य कृताञ्जलिः
आशीर्भिरभिनन्द्याथ भृगुस्तं प्रीत मानसः
श्रुणु वत्स वचो मह्य यत्त्वां वक्ष्यामि सांप्रतम्
गच्छ पुत्र ममादेशाद्धिमवन्तं महागिरिम्
तत्रगत्वा महाभाग कृत्वाश्रमापदं शुभम्
प्रीतिमुत्पाद्य तस्य त्वं भक्त्यानन्यगया चिरात्
तरसा तव भक्त्या च प्रीतो भवति शङ्करः
तुष्टे तस्मिञ्जगन्नाथे शङ्करे भक्तवत्सले
त्वया हितार्थं देवानां करणीयं सुदुष्करम्
तस्मात्त्वं देवदेवेशं समाराधय शङ्करम्
भक्त्या परमया युक्तस्ततो ऽभीष्टमवाप्स्यसि