शोभितं मुनिकल्याभिश्चरन्तीभिरितस्ततः
उटजाङ्गणपर्यन्ततरुच्छायास्वधिष्ठितम्
प्रारब्धताण्डवं केकीमयूरैर्मधुरस्वरैः
अनालीढातपच्छायाशुष्यन्नीवारराशिभिः
अभ्यस्यमानच्छन्दौघं चिन्त्यमानगमोदितम्
प्रारब्धपितृदेवेज्यं सर्वभूतमनोहरम्
तपोवृद्धिकरं पुण्यं सर्वसत्त्वसुखास्पदम्
प्रसूनसौरभभ्राम्यन्मधुपारावनादितम्
एवंविधगुणोपेतं पश्यन्नाश्रममुत्तमम्
संप्रविश्यश्रमोपान्तं रामः स्वप्रपितामहम्
सितश्मश्रुजटाकूर्चब्रह्मसूत्रोपशोभितम्
वामेतरोरुमध्यास्त वामजङ्घेन जानुना
व्याख्यानमुद्राविलसत्सव्यपाणितलांबुजम्
सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थसंहतिम्
पितुः पितामहं द्दष्ट्वा रामस्तस्य महात्मनः
तमागतमुपालक्ष्य तत्प्रभावप्रधर्षिताः
तावदूभृगुरमेयात्मा तदागमनतोषितः
रामो ऽपि तमुपागम्य विनयावनताननः
अभिवाद्य यथान्यायं ख्यातिं च विनयान्वितः
तैश्च सर्वैर्मुदोपेतैराशीर्भिरभिवर्द्धितः
उपविष्टं ततो राममाशीर्भिरभिनन्दितम्
कुशलं खलु ते वत्स पित्रोश्च किमनामयम्
किमर्थमागतो ऽत्र त्वमधुनामम सन्निधिम्
ततोरामो यथान्यायं तस्मै सर्वमशेषतः
पितुर्मातुश्च वृत्तान्त भ्रातॄणां च महात्मनाम्
एतदन्यच्च सकलं भृगोः सप्रश्रयं मुदा
श्रुत्वैतदखिलं राजन्रामेण समुदीरितम्
एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः
ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः
सो ऽभिगम्य तमासीनमभिवाद्य कृताञ्जलिः