अभिनन्द्याशिषा तात ह्युभौ ताविदमाहतुः
पितामहपितामह्योः प्रीतये दर्शनाय च
कञ्चित्कालं तयोर्वत्स प्रीतये वस तद्गृहे
अत्रागच्छ महाभाग क्षेमेणास्मद्दिदृक्षया
तस्मात्पितामह गृहे न चिरात्स्थातुमर्हसि
गतो ऽपि शीघ्रमागच्छ क्रमेण तदनुज्ञया
पितरावप्यनुज्ञाप्य पितामहगृहं ततः
प्रविवेशाश्रमं रामो मुनिशिष्योपशोभितम्
प्रशान्तवैर सत्त्वाढ्यं सर्वसत्त्वमनोहरम्
ददर्श रामो राजेन्द्र स पितामहमग्रतः
उपासितं सत्यवत्या यथा दक्षिणायऽध्वरम्
सुचिरं तं विमर्शेतां समाज्ञापूर्वदर्शनौ
बालो ऽयं बलवान्भातिगांभीर्यात्प्रश्रयेण च
आससाद शनै रामः समीपे विनयान्वितः
संस्पृशंश्चरणौ मूर्ध्ना हस्ताभ्यां चाभ्यवादयत्
आशीर्भिरभिनन्देतां पृथक् पृथगुभावपि
वीक्षन्तौ तन्मुखांभोजं परं हर्षमवापतुः
अनामयमपृच्छेतां तावुभौ दंपती तदा
अनायासेन ते वृत्तिर्वर्तते चाथ कर्हिचित्
तथा स्वानुगतं पित्रोर्भ्रातॄणां चैव चेष्टितम्
प्रीयमाणो ऽवसद्रामः पितुः पित्रोर्न्निवेशने
उवास कतिचिन्मासांस्तच्छुश्रूषापरायणः
पितामहगुरोर्गन्तुमियेषाश्रयमाश्रमम्
यथा चाभ्यां प्रदिष्टेन यया वौर्वाश्रमं प्रति
सप्रहर्षं तदाज्ञातः प्रययावाश्रमं भृगोः
ददर्श शान्तचेतोभिर्मुनिभिः सर्वतो वृतम्
तरुभिः संवृतं प्रीतः फलपुष्पोत्तरान्वितैः
ब्रह्मघोषैश्च विविधैः सर्वतः प्रतिनादितम्
निरस्तनिखिलाघौघं वनान्तरविसर्पिणा
अभितः शोभितं राजन्रम्यैर्मुनिकुमारकैः