पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः
देवकार्यादपि तथा पितृकार्यं विशिष्यते
न हि योगगतिः सूक्ष्मा पितॄणां ज्ञायते नरैः
सर्वेषां राजतं पात्रमथ वा रजतान्वितम्
येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः
सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन्
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम्
नामगोत्रं च मन्त्रं च दत्तमन्नं नयन्ति तम्
एवमेषा स्थिता सत्ता ब्रह्मणः परमेष्ठिनः
इत्येते पितरश्चैव लोका दुहितरस्तथा
कीर्त्तिताः पितरस्ते वै तव पुत्र यथाक्रमम्
लोका दुहितरश्चैव दोहित्राश्च श्रुतास्तथा
अद्यप्रभृति कर्त्तास्मि सर्वमेतद्यथातथम्
पृष्टश्च संशयान्सर्वानृषीनाह नृसंसदि
यस्मिन्सदस्पतिस्नातो ब्रह्मा सीद्देवताप्रभुः
श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः
लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना
प्रोवाच पितृसर्गं तु यश्चैव समुदाहृत
श्राद्धकल्पो नाम विंशतितमो ऽध्यायः
वर्षाणि कतिचिद्राजन्व्यतीयुरमितौजसः
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः
प्रीतिं च निजचेष्टाभिरन्वहं पर्यवर्त्तयत्
पित्रोः शुश्रूषयानैषीद्रामो मतिमतां वरः
गन्तुं व्यवसितो राजन्दैवेन च नियोजितः
उवाच प्राञ्जलिर्भूतवा सप्रश्रयमिदं वचः
विज्ञापयितुमिच्छामि मम तच्छ्रोतुमर्हथः
तस्मात्तत्पार्श्वमधुना गमिष्ये वामनुज्ञया
पितामह्या बहुमुखैरिच्छन्त्या मम दर्शनम्
सदीयं तेन तत्पार्श्वं गन्तुं मामनुजानत
हर्षेण महता युक्तौ साश्रुनेत्रौ बभूवतुः