अनसूयुर्जितक्रोधो लोभमोहविवर्जितः
इह चापि परा पुष्ठिस्तस्मात्कुर्वीत नित्यशः
अपत्यभागी च परेण तेजसा दिवौकसां स व्रजते सलोकताम्
महायोगेश्वरेभ्यश्च सदा च प्रणतो ऽस्म्यहम्
श्राद्धकल्पे ब्रह्मणपरीक्षा नाम एकोनविंशो ऽध्यायः
सप्तस्वेते स्थिता नित्यं स्थानेषु पितरो ऽव्ययाः
आद्यो गणस्तु योगानामनुयोगविवर्द्धनः
शेषास्तु वर्णिंनां ज्ञेया इति सर्वे प्रकीर्त्तिताः
आश्रमश्च यजन्त्येनांश्चत्वारस्तु यथाक्रमम्
तथा संकरजात्यश्च म्लेच्छाश्चापि यजन्ति वै
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः
देवकार्यादपि तथा पितृकार्यं विशिष्यते
न हि योगगतिः सूक्ष्मा पितॄणां ज्ञायते नरैः
सर्वेषां राजतं पात्रमथ वा रजतान्वितम्
येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः
सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन्
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम्
नामगोत्रं च मन्त्रं च दत्तमन्नं नयन्ति तम्
एवमेषा स्थिता सत्ता ब्रह्मणः परमेष्ठिनः
इत्येते पितरश्चैव लोका दुहितरस्तथा
कीर्त्तिताः पितरस्ते वै तव पुत्र यथाक्रमम्
लोका दुहितरश्चैव दोहित्राश्च श्रुतास्तथा
अद्यप्रभृति कर्त्तास्मि सर्वमेतद्यथातथम्
पृष्टश्च संशयान्सर्वानृषीनाह नृसंसदि
यस्मिन्सदस्पतिस्नातो ब्रह्मा सीद्देवताप्रभुः
श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः
लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना
प्रोवाच पितृसर्गं तु यश्चैव समुदाहृत
श्राद्धकल्पो नाम विंशतितमो ऽध्यायः
वर्षाणि कतिचिद्राजन्व्यतीयुरमितौजसः