सोपानत्कश्च यद्भुङ्क्ते यच्च दत्तमसत्कृतम्
श्वा चैव ब्रह्महा चैव नावेक्षेत कथञ्चन
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतास्तथा
रजस्वलायाः स्पर्शेन क्रुद्धोयश्च प्रयच्छति
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः
तस्मात्परिवृतेनेह विधिवद्दर्भपाणिना
अनुमान्य द्विजान्पूर्वमर्गौं कुर्याद्यथाविधि
शुक्लपक्षे च पूर्वाङ्णे श्राद्धं कुर्याद्यथाविधि
एवमेते महात्मानो महायोगा महौजसः
पितृभक्त्यैव तु नरो योगं प्राप्नोति दुर्ल्लभम्
यज्ञहेतोस्तदुद्धृत्य मोहयित्वा जगत्तथा
अमृतं गुह्यमुद्धृत्य योगे योगविदां वराः
देवानां परमं गुह्यमृषीणां च परायणम्
पितृभक्तः समासेन पितृपूर्वपरश्च यः
अयत्नात्प्राप्नुयादेव सर्वमेतन्न संशयः
येषु चाप्यक्षयं श्राद्धं तीर्थेषु च गुहासु च
श्रुत्वेमं श्राद्धकल्पं च न कुर्याद्यस्तु मानवः
परिवादो न कर्त्तव्यो योगिनां तु विशेषतः
योगान्परिवदेद्यस्तु ध्यानिनो मोक्षकाङ्क्षिणः
योगीश्वरपरीवादान्न स्वर्गं याति मानवः
कुंभीपाकेषु पच्यन्ते जिह्वाच्छेदे पुनः पुनः
प्रोत्यानन्तं फलं भुङ्क्त इह वापि न संशयः
ऋचो यजुः साम तदङ्गपारगे ऽविकारमेतं ह्यनवाप्य सीदति
यः स्याच्चतुर्विशतितत्त्वपारगः स पारगो नाध्ययनस्य पारगः
प्रत्याहरेद्योगपथं न यो द्विजो न सर्वपार क्रमपारगोचरः
तं वै वेदविदः प्राहुस्तमाहुर्वेदपारगम्
एवं वेदविदः प्राहुरन्यं वै वेदपारगम्
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो न सशयः
सर्वाण्येतानि वाप्नोति तीर्थदानफलानि च
आश्राव्य च द्विजान्सो ऽथ सर्वकामानवाप्नुयात्