गौरीं वाप्युद्वहेद्भार्यां नालं वा वृषमुत्सृजेत्
दातॄणां चैव यत्पुण्यं निखिलेन प्रवीहि मे
पितृक्षये हि तत्पुत्र तस्मात्तत्राक्षयं स्मृतम्
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत
वृषोत्स्रष्टा पुनात्येव दशातीतान्दशावरान्
वृषोत्सर्ग्गत्पितॄणां तु ह्यक्षयं समुदाहृतम्
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः
मधुकुल्याः पितॄंस्तस्य ह्यक्षयाश्च भवन्ति वै
तृप्तिस्तु या पितॄणां वै सा वृषेणेह कल्पते
मधु वामधुमिश्रं वा सर्वमेवाक्षयं भवेत्
दैवेकर्मणि पित्र्ये च श्रूयते वै परीक्षणम्
ये च भाषाविदः केचिद्ये च व्याकरणे रताः
त्रिणाचिकेतः पञ्चाग्निः स सौपर्णः षडङ्गवित्
पुण्येषु यश्च तीर्थेषु कृतस्नानः कृतव्रतः
ये च सत्यव्रता नित्यं स्वधर्मनिरताश्च ये
एतेभ्यो दत्तमक्षय्यमेते वै पङ्क्तिपावनाः
त्रयो ऽपि पूजितास्तेन ब्रह्मविष्णुमहेश्वराः
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्
अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत
ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा
काण्डपृष्ठो ऽथ कुण्डाशी मधुपः सोमविक्रयी
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे
स्तवकः सूपकारश्च यश्च मित्राणि निन्दति
उन्मत्तो ऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः
विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा
यच्चवाणिजके दत्तं नेह नामुत्र संभवेत्
तथा पाणविके वै च कारुके धर्मवर्जिते
अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति
षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि
भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः