तथाविषमजातानां यमलानां च सर्वशः
मघासु कुर्वञ्छ्राद्धानि सर्वकामानवाप्नुयात्
पितृदवा मघा यस्मात्तस्मात्तास्वक्षयं स्मृतम्
श्राद्धकल्पे तिथिश्राद्धवर्णनं नाम सप्तदशो ऽध्यायः
तानि मे शृणु कार्याणि नक्षत्रेषु पृथक् पृथक्
अग्नीनाधाय स स्वर्गे राजते सुदृढव्रतः
प्रायशः क्रूरकर्माणि आर्द्रायां श्राद्धमाचरन्
पुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः
जातीनां भवति श्रेष्ठो मघासु श्राद्धमाचरन्
प्रदानशीलः सापत्य उत्तरासु करोति यः
चित्रायां चैव यः कुर्यात्पश्येद्रूपवतः सुतान्
पुत्रार्थी तु विशाखासु श्राद्धमीहेत मालवः
आधिपत्यं भवेच्छ्रेष्ठं ज्येष्ठायां सततं तु यः
उत्तरासु तु कुर्वाणो वीतशोको भवेन्नरः
राज्यभागी धनिष्ठासु प्राप्नुया द्विपुलं धनम्
नक्षत्रैर्वारुणैः कुर्वन्भिषक्सिद्धिमवाप्नुयात्
उत्तरास्वनतिक्रम्य विन्देद्गा वै सहस्रशः
अश्वानश्वयुजा भक्तो भरण्यां साधुसत्तमः
कृत्स्नां बलेन सो ऽक्लिष्ठो लभ्ध्वा च प्रशशास ह
श्राद्धकल्पे नक्षत्रश्राद्धं नाम अष्टादशो ऽध्यायः
किंस्वित्स्याच्चिररात्राय किं वानन्त्याय कल्पते
तानि मे शृणु सर्वाणि फलं चैषां यथातथम्
दत्तेन मासं प्रीयन्ते श्राद्धेन हि पितामहाः
शाशेन चतुरो मासान्पञ्च प्रीणाति शाकुनैः
अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत्
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी
श्राद्धे च तृप्तिदं गव्यं पयः संवत्सरं द्विजाः
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य च
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः
अपि नः स कुले यायाद्यो नो दद्यात् त्रयोदशीम्